________________ भ्वादयः] सिद्धहैमबृहत्मक्रिया. 485 भवन्तीतीह न भवति / प्रगता नायका यस्मात्मनायको देशः। णहिनुमीनानेरिति किम् / प्रनृत्यति / अणोपदेशखाण्णत्वं न भवति / अलचटतवर्गशसान्तर इत्येव / प्रतिनमति / प्रददाति / परिनदनमित्यत्र तु क्षुभ्नादित्वान्न भवति / 50 अकखाद्यषान्ते पाठे वा // 2 // 3 // 80 // पाठे धातूपदेशे ककारखकारादिः षकारान्तश्च यो धातुस्ताभ्यामन्यस्मिन् धातो परेऽदुरुपसर्गान्तःशब्दस्थात् रघुवर्णात् परस्य नेर्नकारस्य णो वा स्यात् / प्रणिभवति / प्रनिभवति / प्रणिष्टभ्नाति / प्रनिष्टभ्नाति / स्तम्भेः सौत्रेषु पाठात् पाठविषयत्वम् / अकखादीति किम् / पनिकरोति / प्रनिखनति / अषान्त इति किम् / प्रनिद्वेष्टि। पाठ इति किम् / इह च प्रतिषेधो यथा स्यात् / प्रतिचकार / प्रनिचखाद / प्रनिपेक्ष्यति / इह च मा भूत प्रनिवेष्टा / प्रणिवेष्टा। प्रणिदेष्टा। प्रनिदेष्टा। यङ्लुपि नेच्छन्त्येके। प्रनिपापचीति / मनिसासत्ति इत्यादि / भू सत्तायामिति सत्ताद्यर्थनिर्देशोऽत्रोपलक्षणम् / मृदो घटो भवतीत्यादावुत्पद्यत इत्याधर्थात् / उपसर्गा अर्थविशेषस्य द्योतकाः। प्रभवति पराभवति सम्भवति अनुभवति अभिभवतीत्यादौ विधिधार्थावगतेः / तदुक्तम्-' उपसर्गण धात्वर्थो बलादन्यत्र नीयते / विहाराहारसंहारपहारप्रतिहारवत् // अपरं च-'धात्वर्थ बाधते कश्चित् कश्चित्तमनुवर्तते / ___ तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते // बाधते यथा-प्रतिष्ठते। प्रस्मरति।प्रवसति। प्रलीयते। प्रतीक्षते। प्रतिपालयति। तमनुवतते यथा-अधीते। अध्येति। आचामति। आचष्टे / अनुरुध्यते। प्रलोकयति। तमेव विशिनष्टि यथा-प्रपचति / प्रकरोति / पाणिति / प्राश्नाति / निरीक्षते / निष्टपति / अनर्थको यथा-प्रलम्बते। प्रार्थयते। विजयते। विजानाति / निमीलति / निखञ्जति। निरजति। एषां चापश्चभ्यः प्रायेण प्रयोगो भवति / आहरति। व्याहरति / अभिव्याहरति / समभिव्याहरति / प्रसमभिव्याहरतीति / अथ किं धातुः पूर्व क्रियाविशेषकेणोपसर्गेण युज्यते उत साधनाभिधायिना प्रत्ययेनेति ? साधनेनेति केचित् / साधनं हि क्रियां निवर्तयति तामुपसर्गो विशिनष्टि / अभिनिर्वृत्तस्य चोपसर्गेण विशेषः शक्यो वक्तुं नानाभिनिवृत्तस्य / तदयुक्तम् / यो हि धातूपसर्गयोरभिसंबन्धस्तमभ्यन्तरीकृत्य धातुः साधनेन प्रयुज्यते यस्माद्विशिष्टैव क्रिया साधनेन साध्यवे