________________ 484 सिद्धहैमबृहत्मक्रिया. [आख्यातपकरणे 45 भविष्यन्ती // 5 // 3 // 4 // वय॑त्यर्थे वर्तमानाद्धातोः परा भविष्यन्ती विभक्तिः स्यात् / 46 भविष्यन्ती स्यति स्यतस् स्यन्ति स्यसि स्यथस् स्यथ स्यामि स्थावस् स्यामस स्यते स्यते स्यन्ते स्थसे स्येथे स्यध्वे स्ये स्यावहे स्यामहे // 3 // 3 // 16 // इमानि वचनानि भविष्यन्तीसंज्ञानि स्युः। भविष्यन्तीप्रदेशाः 'भविष्यन्ती' इत्यादयः / सादित्वादिडागमे / भविष्यति। भविष्यतः। भविष्यन्ति। भविष्यसि / भविष्यथ / भविष्यथ / भविष्यामि / भविष्यावः / भविष्यामः / .47 सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः // 49 // सप्तम्या अर्थो निमित्तं हेतुफलकथनादिका सामग्री। कुतश्चिद्वैगुण्यात् क्रियाया अतिपतनमनभिनित्तिः क्रियातिपत्तिः / तस्यां सत्यामेष्यत्यर्थे वर्तमानाद्धातोः सप्तम्यर्थे क्रियातिपत्तिः स्यात् / 48 क्रियातिपत्तिः स्यत् स्यताम् स्यन् स्यस् स्यतम् स्यत स्यम् स्याव स्याम स्यत स्येताम् स्येन्त स्यथास् स्येथाम् स्यध्वम् स्ये स्यावहि स्यामहि // 3 / 3 / 16 // सुदृष्टिश्चेदभविष्यत् सुभिक्षमभविष्यत् / अभविष्यताम् / अभविष्यन् / अभविष्यः। अभविष्यतम् / अभविष्यत। अभविष्यम् / अभविष्याव / अभविष्याम। 49 अदुरुपसर्गान्तरो णहिनुमानानेः // 2 // 377 // दुर्वर्णोपसर्गस्थादन्तःशब्दाच रषवर्णात परस्य णकारहिनुमीना आनिसंबन्धिनो नकारस्य णः स्यात् / णेति णोपदेशा धातवो गृह्यन्ते / उपसर्गाण्णवविधानात् / सर्वे च नादयो णोपदेशा वृतिनन्दिनदिनशिनाटिनकिनाधनानुवर्जम् / नाटीति 'नटण अवस्यन्दने' इति चौरादिकस्यैव वर्जनं नतु 'णट नृत्तौ' इति भौवादिकस्य / प्रणमति / परिणमति / प्रणयति / परिणयति / प्रणामकः। परिणामकः। प्रणायकः। परिणायकः। अन्तर-अन्तर्णयति / अन्तर्णायकः / हिनु-पहिणोति / पहिणुतः / मीनाप्रमीणाति / प्रमीणीतः / हिनुमीनाग्रहणे विकृतस्यापि भवति / एकदेशविकृतस्यानन्यत्वात आनि-प्रभवाणि। आनीत्यर्थवत एव ग्रहणादनर्थकस्य न भवति। प्रवृद्धा वपा येषां तानि प्रवपानि मांसानि / अदुरिति किम् / दुर्भवानि / उपसर्गान्तरिति किम् / प्रातर्नयति / पुनर्नयति / येन धातुना युक्ताः मादयस्तमेव प्रत्युपसर्गसंज्ञा