SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 482. सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे स्युः। परोक्षाप्रदेशाः 'श्रुसदवस्भ्यः परोक्षा वा ' इत्यादयः / भू णव् इति स्थिते णकारो वृद्धयर्थः / . .... ___.36 द्विर्धातुः परोक्षाडे प्राक्तु स्वरे स्वरविधेः // 4 / 1 / 1 // परोक्षायां के च प्रत्यये परे धातुर्दिः स्यात् / धातोरवस्थितस्य द्वितीयमुच्चारणं क्रियत इत्यर्थः / स्वरादौ तु द्विवचननिमित्ते प्रत्यये स्वरस्य कार्यात् मागेव द्वित्वं भवति / धातुरिति किम् / पाशिश्रियत् / ‘वेत्तेः कित्' इति वचनादामि परोक्षाकार्य न भवति / दयांचक्रे / परोक्षाङ / इति किम् / अदात / प्रागिति किम् / निनायेत्यादिषु वृद्धयादेः स्वरविधेः पूर्वमेव द्वित्वं सिद्धं भवति / स्वर इति किम् / दिदीर्वान् / स्वरविधेरिति किम् / श्वि-१शुशाव / रतितवनीयिषतीत्यत्र तु ३स्वरविधेर्विचननिमित्तप्रत्ययाजन्यत्वान्न ततः प्राग द्वित्वम् / जग्ले मम्ले इति अनिमित्तकमात्वम् / अधिजगे इति विषये आदेशः। प्राक्तु स्वरे स्वरविधेरिति आद्विवचनमधिकारः / अन्यथा हि आटिटत् इत्यादि न सिद्धयेत् / [प्रागेव णेोपे सति ] 37 भूस्वपोरदुतौ // 4 / 1 / 70 // भूस्वप् इत्येतयोः परोक्षायां द्वित्वे सति पूर्वस्य यथासंख्यमकारोकारौ स्याताम् / केचित्तु कर्तर्येव भुवोऽकारमिच्छन्ति न भावकर्मणोः / तेन बुभूवे चैत्रेण, अनुबुभूवे कम्बलः साधुनेत्येव भवति / . 38 द्वितीयतुर्ययोः पूर्वी // 4 // 42 // धातोद्वित्वे सति पूर्वस्य द्वितीयतुर्ययोः स्थाने यथासंख्यं पूर्वावाद्यतृतीयावासन्नौ स्याताम् / / ___39 नामिनोऽकलिहलेः // 43 // 51 // नाम्यन्तस्य धातोर्नाम्नो वा कलिहलिवर्जितस्य णिति प्रत्यये परे वृद्धिः स्यात् / इति वृद्धावावादेशे ‘भुवोव ' इत्यूत्वे च बभूव श्रीवीरः / बभूवतुः। कलिहलिवर्जनानाम्नोऽपि / तेन पटुमाख्यातवान् अपीपटत् / अलीलघत् इत्यत्र वृद्धावन्त्यस्वरादिलोपे चासमानलोपित्वात् सन्वद्भावः सिद्धो भवति / कलिहलिवर्जनं किम् / कलिं हलिं वाग्रहीत् अचकलत् अजहलत् / अन्ये तु नाम्नो वृद्धिमनिच्छन्तोऽन्त्यस्वरस्योकारस्यैव णिचि लोपमिच्छन्तः संमानलोपित्वात्सन्वद्भावप्रतिषेधेऽपपटत् अललघदित्येवाहुः। 1 अत्र स्वरव्यञ्जनकार्य 'वा परोक्षायङि' इति वृत् 'दीर्घमवोऽन्त्यम् / 2 तुक् वृत्तीत्यतोऽनडन्तात् क्यनि सनि ‘अन्यस्य' इति द्वित्वम् / 3 गुणरूपस्येत्यर्थः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy