________________ 480 . सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे ___ 22 आशीष्याशी:पञ्चम्यौ // 5 // 4 // 38 // आशासनमाशीः। आशीविशिष्टेऽर्थे वर्तमानाद्धातोराशीःपञ्चम्यौ विभक्ती स्याताम् / कश्चित्तु समर्थनायां पञ्चमीमिच्छति / परैरशक्यस्य वस्तुनोऽध्यवसायः समर्थना / कश्चिदाह समुद्रः शोषयितुमशक्यः / स आह समुद्रमपि शोषयाणि / . ___23 पञ्चमी तुव ताम् अन्तु हि तम् त आनि आवद् आम ताम् आताम् अन्ताम् स्व आथाम् ध्वम् ऐ आवहै आमहैत् // 3 // 38 // इमानि वचनानि पश्चमीसंज्ञानि स्युः। पश्चमीप्रदेशाः ‘स्मे पञ्चमी' इत्यादयः। 24 आशिषि तुह्योस्तातङ् // 4 / 2 / 119 // आशिषि विहितयोस्तुह्योः स्थाने तातङ् आदेशो वा स्यात् / आयुष्मान् भवतु भवतात् भवान् / ङित्करणं गुणनिषेधार्थम् / ___25 अतः प्रत्ययाल्लुक् // 4 / 285 // धातोः परो योऽकारान्तः प्रत्ययस्तस्मात्परस्य हेर्लक् स्यात् / भव / आशिषि श्रेयस्वी भवतात् सौम्य / भवतम् / भवत / भवानि / भवाव / भवाम / 26 अनद्यतने ह्यस्तनी // 5 // 27 // आन्याय्यादुत्थानादान्याय्याच संवेशनादहरुभयतः सार्धरात्रं वा अद्यतनः कालः। तस्मिन्नसति भूतेऽर्थे वर्तमानाद्धातोबस्तनी विभक्तिः स्यात् / 27 ह्यस्तनी दिव् ताम् अन् सिव तम् त अम्ब व म त आताम् अन्त थास् आथाम् ध्वम् इ वहि महि // 3 / 3 / 1 // इमानि वचनानि ह्यस्तनीसंज्ञानि स्युः / ह्यस्तनीप्रदेशाः ‘अनद्यतने ह्यस्तनी' इत्यादयः / दिस्योरिकार उच्चारणार्थः। 28 अधातोरादिस्तिन्यां चामाङा // 4 / 4 / 29 // ह्यस्तन्यामद्यतनीक्रियातिपत्त्योश्च विषये धातोरादिरवयवोऽट् स्यात * अमाङा'-माङा योगे तु न / अभवद् ह्यो जिनार्चा / विरामे वा / अभवत् / अभवताम् / अभवन् / अभवः अभवतम् / अभवत / अभवम् / अभवाव / अभवाम / विषयविज्ञानात् प्रत्ययव्य