SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ मादयः] सिद्धहैमबृहत्मक्रिया. 479 - 17 विधिनिमन्त्रणाधीष्टसंप्रश्नप्रार्थने // 5 // 428 // विधिरमाप्ते नियोगः। क्रियायां प्रेरणेति यावत् / अज्ञातज्ञापनमित्येके। कटं कुर्यात् करोतु भवान् / प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणम् , इच्छामन्तरेणापि नियोगतः कर्तव्यमिति यावत् / द्विसन्ध्यमावश्यकं कुर्यात् करोतु भवान् / यत्र प्रेरणायामेव प्रत्याख्याने कामचारस्तदामन्त्रणम् / इहासीत आस्तां भवान् यदि रोचते / प्रेरणैव सत्कारपूर्विकाऽधीष्टम् अध्येषणम् / तत्त्वज्ञानं नः प्रसीदेयुः प्रसीदन्तु गुरुपादाः। संपश्नः संपधारणा। किन्नु खलु भो व्याकरणमधीयीय अध्ययै उत सिद्धान्तम् / प्रार्थनं याच्आ। प्रार्थना मे व्याकरणमधीयीय अध्ययै / एतेषु विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु धातोः सप्तमीपञ्चम्यौ स्याताम् / सर्वप्रत्ययापवादौ / 18 सप्तमी यात् याताम् युस् यास् यातम् यात याम् याव याम ईत ईयाताम् ईरन् ईथास् ईयाथाम् ईध्वम् ईय ईवहि ईमहि // 3 // 37 // इमानि वचनानि सप्तमीसंज्ञानि स्युः। सप्तमीप्रदेशाः 'इच्छाथै कर्मणः सप्तमी' इत्यादयः। 19 यः सप्तम्याः // 4 / 2 / 15 / / अकारात्परस्य सप्तम्याः संबंधिनो याशब्दस्येकारादेशः स्यात् / भवेत् / भवेताम् / आदित्येव / अद्यात् / / 20 याम् युसोरियमियुसौ // 4 / 2 / 123 // अकारात् परयोर्याम्युस् इत्येतयोर्यथासंख्यमियमियुसावादेशौ स्याताम्। भवेयुः। भवः। भवेतम् / भवेत। भवेयम् / भवेव / भवेम / - 21 प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ / / 1 / 4 / 29 न्यत्कारपूर्विका प्रेरणा प्रेषः। अनुज्ञा कामचारानुमतिः। अतिसर्ग इति यावत् / अवसरः प्राप्तकालता-निमित्तभूतकालोपनतिः। प्रैषादिविशिष्टे कर्नादावर्थे धातोः कृत्यप्रत्ययाः पञ्चमी च विभक्तिः स्यात् / यद्यपि कृत्याः सामान्येन भावकर्मणोर्विहितास्तथापि सर्वप्रत्ययापवाद. भूतया पञ्चम्या बाध्येरन् इति पुनर्विधीयन्ते / भवता खलु कटः कार्यः कर्तव्यः करणीयः कृत्यः / अनुज्ञायां केचित्सप्तम्येवेत्याहुः। 1 तत्वज्ञानं कर्मतापन्नं नोऽस्मभ्यं प्रसादपूर्वकं दद्युः-प्रसीदेयुः गुरुपादाः। यद्वा तत्वज्ञानरूपक्रियाविशेषणादम् नोऽस्माकं प्रसीदेयुः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy