________________ 478 सिद्धहैमबृहत्प्रक्रिया. आख्यातप्रकरणे - 13 कर्तर्यनद्भ्यः शर // 3 / 471 // धातोरदादिवर्जितात् कर्तरि विहिते शिति शव् प्रत्ययः स्यात् / शकारवकारौ शिद्वित्कार्यार्थौ / 14 नामिनो गुणोऽक्छिति // 4 // 3 // 4 // नाम्यन्तस्य धातोः किडित्वजिते प्रत्यये परे आसन्नो गुणः स्यात् / इति गुणे अवादेशे भवति / नामिन इति किम् / याति / नीभ्यां लूभ्यामित्यादौ गौणत्वान्न गुणः। अक्डिन्तीति किम् / चितः। अशिश्रियत् / __ 15 शिदवित् ।।४।३।२०॥धातोः परो विद्वर्जितः शित्मत्ययो डिद्वत्स्यात् / इत्यनेन तसि ङिद्वद्भावाद् गुणापाप्तावपि शक्निमित्तो गुणः। भवतः। अविदिति किम् / एति / शिदिति किम् / वेषीष्ट / कथं च्यवन्ते प्लवन्ते ? अन्तरङ्गत्वाद् गुणे कृते शवो लोपात् स्थानिवद्भावाद्वा / लुगस्यादेत्यपदे इत्यकारलुकि, भवन्ति / भवसि / भवथः / भवथ / 16 मव्यस्याः॥४।२।११३॥ धातोर्विहिते मकारादौ वकारादौ च प्रत्ययेऽकारस्याकारो दीर्घः स्यात् / भवामि / भवावः / भवामः / धातोः प्रत्ययेनाभिसंबंधो नाकारेणेति प्रत्ययाकारस्यापि दीर्घो भवति / अस्येति किम्। चिनुवः। चिनुमः / आकारस्य दीर्घत्वेन विशेषणमाकारो दीर्घ एव यथा स्यात् न प्लुतस्तल्लक्षणयोगेऽपीत्येवमर्थम् / स भवति / तौ भवतः / ते भवन्ति / त्वं भवसि / युवां भवथः / यूयं भवथ / अहं भवामि / आवां भवावः वयं भवामः। एवं सर्वासु विभक्तिषु / द्वययोगे त्रययोगे च शब्दस्पर्धात् पराश्रयमेव वचनमतिदिश्यते। स च त्वं च भवथः / स चाहं च भवावः। स च त्वं चाहं च भवामः। कथमत्वं त्वं संपद्यते अनहमहं संपद्यते त्वद्भवति मद्भवति? युष्मदस्मदोगौणत्वात् / त्वमादेशौ तु शब्दमात्राश्रयत्वाद् भवत एव / एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेति प्रहासे यथाप्राप्तमेव प्रतिपत्तिात्र प्रसिद्धार्थविपर्यासे किंचिन्निवन्धनमस्ति / रथेन यास्यसीति भाविगमनाभिधानात्महासो गम्यते / नहि यास्यसीति बहिर्गमनं प्रतिषिध्यते / अनेकस्मिन्नपि प्रहसितरि च प्रत्येकमेव परिहास इति अभिधानवशान्मन्ये इत्येकवचनमेव / लौकिकश्च प्रयोगोऽनुसर्तव्य इति न प्रकारान्तरकल्पना न्याय्या।