SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ 477 भ्वादयः] सिद्धहैमबृहत्पक्रिया. क्रीणीष्व वपते धत्ते मिनुते चिनुतेऽपि च। - आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते // एतच्च श्रोत्रियमतमित्युपेक्ष्यते / 9 शेषात्परस्मै // 3 // 3 // 100 // पूर्वप्रकरणेनात्मनियमः कृतः परस्मैपदं तु अनियतमिति नियमार्थमिदम् / उपयुक्तादन्यः शेषः। येभ्यो धातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्मादेव धातोः कर्तरि परस्मैपदं स्यात् / अनुबन्धोपसर्गार्थोपपदप्रत्ययभेदाचानेकधा शेषः / 10 सति // 5 / 2 / 19 // सन् विद्यमानो वर्तमान इत्यर्थः स च प्रारब्धापरिसमाप्तः क्रियामबन्धः / सत्यर्थे वर्तमानाद्धातोर्वर्तमाना विभक्तिः स्यात / जीवं न मारयति मांसं न भक्षयतीत्यादौ नियमः प्रारब्धोऽसमाप्तश्च प्रतीयते। इहाधीमहे इह कुमाराः क्रीडन्तीत्यादौ क्रियान्तरव्यवधानेऽपि अध्ययनादिक्रियायाः प्रारम्भापरिसमाप्तिरस्त्येव / चैत्रो भुङ्क्ते इत्यादावपि हि क्रियान्तरव्यवधानमशक्यपरिहारम् / सोऽपि ह्यवश्यं भुञ्जानो हसति जल्पति पानीयं वा पिबतीति / तिष्ठन्ति पर्वताः स्यन्दन्ते नद्य इत्यादौ तु स्फुटैव प्रारम्भापरिसमाप्तिः। कथं तर्हि तस्थुः स्थास्यन्ति गिरय इति / भूतभाविनां भरतकल्किप्रभृतीनां राज्ञां याः क्रियाः तदवच्छेदेन पर्वतादिक्रियाणामतीतत्वानागतत्वोपपत्तेनं भूतभाविप्रत्ययानुपपत्तिदोषः। एवं च विद्यमानकर्तृकेभ्योऽस्त्यर्थेभ्यो धातुभ्यः सर्वा विभक्तयो भवन्ति / कूपोऽस्ति भविष्यति भविताऽभूदासीत् बभूव / ( अथेयं का वर्तमाना ? ) 11 वर्तमाना तित् तस् अन्ति सिव् थस् थ मिव वस् मस ते आते अन्ते से आथे ध्वे ए वहे महे // 3 // 36 // इमानि वचनानि वर्तमानासंज्ञानि स्युः। वित्करण 'शिदवित् ' इत्यत्र विशेषणार्थम् / एवमन्यत्रापि वित्करणस्य प्रयोजनं द्रष्टव्यम् / वर्तमानाप्रदेशाः ' स्मे च वर्तमाना' इत्यादयः / " 12 एताः शितः॥३॥३॥१०॥ एताः-वर्तमानासप्तमीपञ्चमीह्यस्तन्यः शितःशानुबन्धा वेदितव्याः। शित्वाच शित्कार्यम् / भू सत्तायाम् // 1 // कर्तृविवक्षायां भू ति इति स्थिते /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy