________________ 476 सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे नदी सुप्यते / मास आसितव्यः / मास आसितः / मासो दुरासः / भावे-मासमास्यते / क्रोशमधीयते। ओदनपाकं स्थीयते / कुरून् सुप्यते / मासमासितव्यम् / मासमासितम् / मासं स्वासम् / भावे च युष्मदस्मत्संबन्धनिमित्तयोः कर्तृकर्मणोरभावात् प्रथममेव त्रयं भवति / साध्यरूपत्वाच्च संख्यायोगो नास्तीति औत्सर्गिकमेकवचनमेव भवति / पाकः पाको पाकाः। पाको वर्तते पाकं करोतीत्यादौ चानव्ययकृदभिहितो भावो द्रव्यवत्प्रकाशत इति संख्यया लिङ्गेन कारकैश्च युज्यते / त्यादिनेवाव्ययेनाभिहितस्त्वसत्वरूपत्वान्न युज्यते / उष्टासिका आस्यन्ते, हतशायिकाः शय्यन्ते इति तु बहुवचनं कृदभिहितेन अभेदोपचाराद् भवतीति / 7 इङितः कर्तरि // 3 // 3 // 22 // इकारेतो ङकारेतश्च धातोः कर्तर्यात्मनेपदं स्यात् / एभ्य एव कर्तरीति नियमार्थ वचनम् / 8 ईगितः / / 3 / 3 / 95 // ईकारेतो गकारेतश्च धातोः फलवति कर्तरि आत्मनेपदं स्यात् / यजी यजते / डुकंग कुरुते / फलवतीत्येव / यजन्ति याजकाः / पचन्ति पाचकाः / कुर्वन्ति कर्मकराः / नात्र स्वर्गीदनादि प्रधानं फलं का संबध्यते / यच्च दक्षिणावेतनादि संबध्यते न तत् क्रियायाः फलं प्रधानम् इति / तचैतत्स्वार्थलक्षणं फलं सदसद्वा विवक्षानिबन्धनमेव ग्राह्यम् / तथैव लोके व्यवहारात् / तथाहि-कचिदसदपि सद्विवक्ष्यते.। यथा शोषयते व्रीहीनातपः / शब्दः प्राक स्वार्थमभिधत्ते ततो द्रव्यम् / परकर्मण्यपि प्रवृत्ताः कदाचिदाहुर्यजामहे इमे पचामहे / यत्नादस्मदीयमेवैतदिति कचित्सदप्यसद्विवक्ष्यते / यथा इमे ब्रूमः / अवचनप्रतिषेधपरत्वेन प्रवृत्तेर्विवक्षितखात् / एवम् अगमकवादिति ब्रूमो न बमोऽपशब्दः स्यादिति / तदाहुः ‘क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थता / असती वा सती वापि विवक्षितनिबन्धना' // इति / केचित्तु णिग्वर्जितादीगितो धातोर्णिगर्थे एव प्रेरणाध्येषणविशेषे प्रतिविधाननानि वर्तमानादात्मनेपदमिच्छन्ति / पचते-पाचयतीत्यर्थः / केशश्मश्रु वपते / वापयतीत्यर्थः / वेदो वैधयं विधत्ते-विधापयतीत्यर्थः इत्यादि / यदाहुः--