________________ भ्वादयः] . सिद्धहैमबृहत्प्रक्रिया. 475 . 2 त्रीणि त्रीण्यन्ययुष्मदस्मदि // 33 // 17 // सर्वासां विभक्तीनां त्रीणि त्रीणि वचनानि अन्यस्मिन्नर्थे चाभिधेये यथाक्रमं परिभाष्यन्ते / अन्यत्वं युष्मदस्मदपेक्षं संनिधानात् / युष्मच्छब्दोपसृष्टार्थो युप्मदर्थः / तेन भवच्छब्देनोच्यमानो न युष्मदर्थः। 3 एकद्विबहुषु // 3 // 3 // 18 // अन्यादिषु यानि त्रीणि त्रीणि वचनान्युक्तानि तानि एकद्विबहुष्वर्थेषु परिभाष्यन्ते / एकस्मिन्नर्थे एकवचनं, द्वयोरर्थयोचिचनं, बहुष्वर्थेषु बहुवचनम् / वचनभेदान्नान्यादिभिरेकादीनां यथासंख्यम् / __ 4 नवाद्यानि शतृक्कसू च परस्मैपदम् // 3 // 3 // 19 // सर्वासां विभक्तीनामाद्यानि नव नव वचनानि शतकम् च प्रत्ययौ परस्मैपदसंज्ञानि स्युः। परस्मैपदसंज्ञाप्रदेशाः ‘शेषात्परस्मै ' इत्यादयः / 5 पराणि कानानशौ चात्मनेपदम् / / 3 / 3 / 20 // सर्वासां विभक्तीनां पराणि नव नव वचनानि कानानशौ च प्रत्ययावात्मनेपदसंज्ञानि स्युः। आत्मनेपदपदेशाः ' सिजाशिषावात्मने इत्यादयः। 6 तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखलाश्च / / 3 / 3 / 21 // तदात्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः साप्यात्सकर्मकाद् धातोः कर्मणि, अनाप्यादकर्मकादविवक्षितकर्मकाच्च भावे स्युः / क्रियते कटश्चैत्रेण / क्रियमाणः। करिष्यमाणः। चक्राणः। भावे-भूयते भवता / भूयमानं भवता / सकर्मका अपि अविवक्षितकर्माणः कषेकनिष्ठव्यापारा अकर्मका भवन्ति / तेनैषां भावेऽपि प्रयोगः। क्रियते भवता / मृदु पच्यते भवता / पञ्च वारान् भुज्यते भवता / कृत्याः-कार्यः कर्तव्यः करणीयः देयः कृत्यः कटो भवता / भवता शयनीयम् / भवता शयितव्यम् / भवता शेयम् / भवता कार्यम् कर्तव्यम् करणीयम् / देयं कृत्यं भवता / क्तः कृतः कटो भवता / शयितं भवता / कृतं भवता। सकर्मकादपि क्लीबे भावे क्तमिच्छन्ति / ग्रामं गतं भवता / ओदनं भुक्तं भवता / खलाः -सुकरः कटो भवता / मुशयं भवता / सुकरं भवता / सुकटंकराणि वीरणानि / ईषदाढ्यं भवं भवता / सुज्ञानं तत्त्वं मुनिना / सुग्लानं कृपणेन / ' कालाध्वभावदेशं वा' इत्यादिना कालावभावदेशानां कर्मसंज्ञाया अकर्मकत्वस्य च विधानात् तद्योगे कर्मणि भावे चात्मनेपदादीनि भवन्ति / मास आस्यते / क्रोशो गुडधानाभिर्भूयते / गोदोहः सुप्यते /