________________ // अथोत्तरार्द्धम् // प्रणम्य परमेशानं वाग्देवीं विश्वदेवताम् / हेमचन्द्रं च चन्द्राभं सर्वशास्त्रपयोनिधे // 1 // पूर्वार्द्ध प्रक्रियाबद्धं हैमशब्दानुशासनम् // कथितं चोत्तरार्द्ध तत्क्रमेणवाधुनोच्यते // 2 // तत्राथ॥ आख्यातप्रकरणे निरनुबन्धा भ्वादयः // आख्यातमत्यया धातोर्वक्तव्या:।। क्रियार्थो धातुः। कृतिः क्रियेत्यायुक्तमेव। भवति। एधते। अत्ति। दीव्यति। सुनोति। रुणद्धि / तनोति / क्रीणाति / सहति / आयादिप्रत्ययान्तानामपि क्रियार्थत्वात् धातुत्वम् / गोपायति / कामयते / ऋतीयते / जुगुप्सते / कण्डूयति / पापच्यते / चोरयति / कारयति / चिकीर्षति / पुत्रकाम्यति / पुत्रीयति / अश्वति / श्येनायते / हस्तयते / मुण्डयति / एवं जुस्तम्भुचुलुम्पादीनामपि / जवनः / स्तभ्नाति / चुलुम्पाञ्चकार / प्रेङ्खोलयति / शिष्टप्रयोगानुसारित्वात् अस्य लक्षणस्याणपयत्यादिनिवृत्तिः। शिष्टज्ञापनाय चेदं लक्षणम् / एतदविसंवादेन च शिष्टा ज्ञायन्त इति। अन्वयव्यतिरेकाभ्यां च धातोः क्रियार्थत्वावगमः। तथाहि-पचतीत्यादौ धातुप्रत्ययसमुदाये संसृष्टक्रियाकालकारकाद्यनेकार्थाभिधायिनि प्रयुज्यमाने धातोरेव क्रियार्थत्वमवगम्यतेऽन्वयव्यतिरेकाभ्यां नेतरेषाम् / पचतीति प्रयोगे द्वयं श्रूयते पच् इति प्रकृतिः अतिरिति च प्रत्ययः। अर्थोऽपि कश्चिद् गम्यते / विक्लित्तिः कर्तृत्वमेकत्वम् / पठतीत्युक्ते कश्चित् शब्दो हीयते कश्चिदुपजायते कश्चिदन्वयी। पच् शब्दो हीयते पठ्शब्द उपजायते अतिशब्दोऽन्वयी। अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चिदन्वयी / विक्लित्तिहीयते पठिरुपजायते कर्तृत्वमेकत्वं चान्वयी / तेन मन्यामहे यः शब्दो हीयते तस्यासावर्थो योऽर्थो हीयते यश्च शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते यश्च शब्दोऽन्वयी तस्यासावर्थो योऽन्वयीति। ननु च कृतिः करोत्यर्थः