________________ 472 सिद्धहैमबृहत्पक्रिया. [तद्धित 2318 प्रियसुखं चाकृच्छ्रे / / 7 / 4 / 87 // प्रियसुखशब्दौ अकृच्छ्रे-क्लेशाभावे वा द्विरुच्येते तत्र चादौ शब्दरूपस्य स्यादेः प्लुप् स्यात् / प्रियप्रियेण ददाति / प्रियेण ददाति / सुखसुखेनाधीते / सुखेनाधीते / अक्लेशेनाधीते इत्यर्थः। अकृच्छू इति किम्। प्रियः पुत्रः। सुखो रथः। चकारः प्लुप् चादौ स्यादेः इत्यस्यानुकर्षणार्थः। 2319 वाक्यस्य परिर्वर्जने // 7 / 4 / 88 // वाक्यस्यावयवो यः परिशब्दो न पदस्य स वर्जने वर्तमानो वा द्विरुच्यते / परि परि त्रिगर्तेभ्यो वृष्टो मेघः। परि त्रिगर्तेभ्यो वृष्टो मेघः / परि परि सौवीरेभ्यः। परि सौवीरेभ्यः। वाक्यस्येति किम् / परित्रिगत दृष्टो मेघः / वाक्यस्यैवेत्यवधारणविज्ञानात् पदावये न भवति / परिरिति किम् / अप त्रिगर्तेभ्यो वृष्टो मेघः / वर्जन इति किम् / साधुर्देवदत्तो मातरं परि / ____2320 परस्परान्योन्येतरेतरस्याम् स्यादेर्वा पुंसि // 3 / 2 / 1 // परस्परादीनामपुंसि स्त्रियां नपुंसके च प्रयुज्यमानानां संवन्धिनः स्यादेः स्थाने आमादेशो वा स्यात् / इमे सख्यौ परस्परां भोजयतः / परस्परं भोजयतः / आभिः सखीभिः परस्परां भोज्यते / परस्परेण भोज्यते / इमाः सख्यः परस्परां प्रयच्छन्ति / परस्परस्मै प्रयच्छन्ति / इमाः परस्परां परस्परस्माद्वा बिभ्यति / इमाः परस्परां परस्परस्य वा स्मरन्ति / इमाः परस्परां परस्परस्मिन् वा स्निह्यन्ति / इमे कुले परस्परां परस्परं वा भोजयत इति / इमे सख्यौ कुले वा अन्योन्यामन्योन्यं वा भोजयतः। सखीभिः कुलैर्वा अन्योन्यामन्योन्येन वा भोज्यते / इमे सख्यौ कुले वा इतरेतरामितरेतरं वा भोजयतः / सखीभिः कुलैर्वा इतरेतराभितरेतरेण वा भोज्यते / अपुंसीति किम् / इमे नराः परस्परं भोजयन्ति / नरैः परस्परेण भोज्यते / नरैः परस्परस्मै दीयते / अपरोऽर्थः-परस्परादीनामपुंसि प्रयुज्यमानानां संवन्धिनः स्यादेरमादेशो वा स्यात् / आभिः सखीभिः कुलैर्वा परस्परं परस्परेण वा भोज्यते / स्त्रीभिः कुलैर्वा परस्परं परस्परस्मै वा दीयते। अपरोऽर्थः-परस्परादीनां पुंसि प्रयुज्यमानानां संबंधिनः स्यादेरम्वा स्यात् / एभिर्नरैः परस्परं परस्परेण वा भोज्यते / एभिर्नरैः परस्परं परस्परस्मै वा दीयते / एवं च स्त्रीनपुंसकयोरमामौ द्वावादेशौ वा स्यातामिति त्रैरूप्यम् / इमे परस्परादयः शब्दाः स्वभावादेकत्वपुंस्त्ववृत्तयः कर्मव्यतीहारविषयाः। अस्मादेव च निर्देशात् परान्येतरशब्दानां सर्वनाम्नां द्विवचनादि निपात्यते / // इति श्रीसिद्धहैमबृहत्मक्रियायां द्विरुक्तप्रक्रिया समाप्ता // समाप्तं पूर्वार्द्धम् //