SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 471 2314 रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे // 4 / 83 / / वीप्सायामिति निवृत्तम् / द्वन्द्वमिति द्विशब्दस्य द्विवचनं शेषं पूर्ववत् रहस्यादिषु गम्यमानेषु निपात्यते। रहस्ये-द्वन्द्वं मन्त्रयन्ते / रहस्यं मन्त्रयन्त इत्यर्थः। मर्यादोक्तौआचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते / माता पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुन यातीत्यर्थः / व्युत्क्रान्तौ-द्वन्द्वं व्युत्क्रान्ताः, द्वैराश्येन भिन्ना इत्यर्थः। व्युत्क्रान्तिर्भेदः। यज्ञपात्रप्रयोगे-द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति / द्वे द्वे प्रयुनक्तीत्यर्थः। रहस्यादिष्विति किम् / द्वौ तिष्ठतः। उक्तिग्रहणं शब्दोपात्तायां मर्यादायां यथा स्यात् प्रकरणादिगम्यायां मा भूदित्येवमर्थम् / द्वन्द्वः समासः, द्वन्द्वः कलहः द्वन्द्वं युद्धं, द्वन्द्वं युग्मं, द्वन्द्वानि सहते दुःखानीत्यर्थः / अत्र द्वन्द्व इति शब्दान्तरम् / ___ 2315 लोकज्ञातेऽत्यन्तसाहचर्ये // 7 / 4 / 84 // लोकज्ञातेऽत्यन्तसाहचर्ये धोत्ये द्विशब्दस्य पूर्ववत् द्वन्द्वमिति निपात्यते / द्वन्द्वं नारदपर्वतौ। द्वन्द्वं रामलक्ष्मणौ / द्वन्द्वं बलदेववासुदेवौ। द्वन्द्वं स्कन्दविशाखौ / द्वन्द्वं शिववैश्रवणौ / लोकज्ञात इति किम् / द्वौ चैत्रमैत्रौ / अत्यन्तसाहचर्य इति किम् / द्वौ युधिष्ठिरार्जुनौ / द्वन्द्वमिति च सूत्रत्रयेऽपि नपुंसकं वेदितव्यमनुप्रयोगस्य नपुंसकवार्थम् / 2316 आबाधे // 7 // 4 // 86 // आबाधो मनःपीडा प्रयोक्तधर्मः। तस्मिन् विषये वर्तमानं शब्दरूपं द्विरुच्यते तत्र चादौ पूर्वपदे स्यादेः प्लप स्यात् / ऋक् ऋक् / पू: पूः। गतगतः / नष्टनष्टः / गतगता / नष्टनष्टा / नन करोभि / ऋगादेर्दरुच्चारणादिना पीड्यमानः प्रयोक्ता एवं प्रयुकते। अष्टमी अष्टमी कालिका कालिका इत्यत्र तु पूरणप्रत्ययान्तवात् कोपान्त्यखाच्च पुंवद्भावो न भवति / 2317 नवा गुणः सदृशे रित् // 7 / 4 / 86 / / गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो वा द्विरुच्यते तत्र चादौ वर्तमानस्य स्यादेः प्लुप् स्यात् सा च रिन् / रिकरणं प्रतिषिद्धस्यापि पुंवद्भावस्य 'रिति' इति विधानार्थम् / शुक्लशुक्लं रूपम् / शुक्लशुक्लः पटः। कालककालिका। शुक्लादिसदृशमपरिपूर्णगुणमेवमुच्यते। वाग्रहणात् पक्षे जातीयरपि भवति / शुक्लजातीयः। पटुजातीयः / गुण इति किम् / अग्निर्माणवकः / गौर्वाहीकः / सदा गुणवाची यः स इह गुणशब्दो गृह्यते / अयं तूपमानात् माग्द्रव्यवाची पश्चात्तु तैक्ष्ण्यजाड्यादिगुणवाचीति न भवति / सदृश इति किम् / शुक्लः पटः / पटुश्चैत्रः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy