________________ [तद्धित 470 सिद्धहैमबृहत्मक्रिया. क्तलक्षणवीप्साया अभावान भवति। तथाहि संपन्नो यवः संपन्ना यवा इति जातेरेकसात् बढर्थाभिधानं नास्ति / अस्मिन्वने वृक्षाः शोभना इति एकशेषे साकल्येन व्याप्तिर्नास्ति / तथाहि-कतिपयेष्वपि वृक्षेषु शोभनेष्वयं प्रयोगो भवति / एवमितरेतरयोगेऽपि / अस्मिन्वने धवखदिरपलाशाः शोभना इति न वीप्सा, तथाऽस्मिन्वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमाभिधाने साकल्येनापि व्याप्ती यौगपद्याभावान्न भवति / अस्मिन् वने सर्वे वृक्षाः शोभना इत्यत्र तु सर्वशब्देन वीप्सा र्थाभिधानान्न भवति / यथा तद्धितसमासाभ्याम् / तद्धितेन तावत्-द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति / एकैकं ददाति एकशो ददाति / एकैकशो ददातीत्यत्र वीप्सायां द्विवचने कृते 'बह्वल्पार्थात् ' इति शस् भविष्यति। अर्थमर्थ प्रति प्रत्यर्थम् / गेहं गेहमनुप्रवेशमास्ते गेहानुप्रवेशमास्ते / कचित्तु वीप्स्यमानमपि समासेनाभिधीयते / पर्वणि पर्वणि सप्त पर्णान्यस्य सप्तपर्णः / पक्तौ पङ्क्तौ अष्टौ पदान्यस्य अष्टापदः / ननु च वृक्षं वृक्षं सिञ्चतीत्यादौ वीप्सायां बहवोऽर्थाः प्रतीयन्ते तत्र बहुषु बहुवचनं प्राप्नोति / उच्यते / पृथक्संख्यायुक्तानामिति वचनात् परिगृहीतैकवादिसंख्यानां पदार्थानां वीप्सया योग इति पुनः समुदायाद् बहुवचनं न भवति / 2312 प्लुप् चादावेकस्य स्यादेः // 74 / 81 // एकशब्दस्य वीप्सायां द्विरुक्तस्यादौ वर्तते य एकशब्दस्तत्संबन्धिनः स्यादेः प्लुप स्यात् / पित्करणं पुंवद्भावार्थम् / अत एवातद्धितेऽपि लुपि पुंवद्भावः। एकैकः। एकैका। एकैकस्याः। एक एका / एक एकस्याः / अत्र विरामस्य विवक्षितत्वात् पुंवद्भावे सति संधिकार्य न भवति / यथा अग्रे अग्रे सूक्ष्माः / यथा वा ऋक् ऋगिति / आदिपदस्य स्यादेः प्लुप्युत्तरेणाभेदाश्रयणे स्याद्यन्तवात् 'सर्वादयोऽस्यादौ ' इति पुंवद्भावो न पामोतीति लुपः पित्त्वं विधीयते / चकार उत्तरत्र प्लुद्विवचनयोः समुच्चयार्थः / इह तु द्विवचनं पूर्वेणैव सिद्धम् प्लुप्मात्रं विधीयते।आदाविति किम् / उत्तरोक्तौ मा भूत्। 2313 इन्द्रं वा // 7 / 4 / 82 // द्वन्द्वमिति वीप्तायां द्विरुक्तस्य द्विशब्दस्यादौ स्यादेः प्लुप् इकारस्याम्भाव उत्तरत्रेकारस्यात्वं स्यादेश्वाम्भावो वा निपात्यते / द्वन्दं तिष्ठतः / द्वौ द्वौ तिष्ठतः। नरकपटलान्यधोऽधो द्वन्द्वं हीनानि / द्वाभ्यां द्वाभ्यां हीनानि / द्वन्द्व युद्धं वर्तते / द्वयोर्द्वयोयुद्धं वर्तते / द्वन्द्वं कृतम् / द्वाभ्यां द्वाभ्यां कृतम् / द्वन्द्वं स्थितम् / द्वयोर्द्वयोः स्थितम् /