________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. पुष्यन्ति / प्रथमं प्रथमं पच्यन्ते। अन्येभ्यः पूर्वतरं पुष्यन्ति, प्रथमतरं पच्यन्त इत्यर्थः / अन्यत इति किम् / पूर्वतरं पुष्यन्ति / प्रथमतरं पच्यन्ते / अत्र स्वव्यापारापेक्षातिशयो गम्यते न तावदिमे किशलयिता यावत्पुष्पिताः, न तावदिमे पुष्पिता यावत्पक्का इति / अतिशय इति किम् / पूर्व, प्रथमम् / अन्येऽतिशयमात्रेऽपि द्विवंचनमिच्छन्ति तमप्तरवर्थ च विकल्पम् / ___2309 प्रोपोत्सं पादपूरणे // 74 / 78 // प्र उप उत् सम् इत्येतान्युपसर्गरूपाणि द्विरुच्यन्ते तेन चेद् पादः पूर्यते / 'प्रप्रशान्तकषायाग्नेरुपोपप्लववर्जितम् / उदुज्ज्वलं तपो यस्य संसंश्रयत तं जिनम्' // 1 // . पादपूरण इति.किम् / प्रणम्य सच्छ।सनवर्धमानम् / इदं छन्दसीति कश्चित् / __2310 सामीप्येऽधोऽध्युपरि // 14 // 79 // अधस् अधि उपरि इत्येतानि शब्दरूपाणि द्विरुच्यन्ते सामीप्ये विवक्षिते / सामीष्यं देशकृता कालकृता वा प्रत्यासत्तिः। अधोऽधो ग्रामम् / अध्यधि ग्रामम् / उपर्युपरि ग्रामम् / उपर्युपरि दुःखानि / सामीप्य इति किम् / अधः पन्नगाः / अधि ब्रह्मदत्ते पश्चाला। उपरि चन्द्रमाः / कथमुपरि शिरसो घट इति / अत्रौत्तराधर्यमानं विवक्षितम् , न सदपि सामीप्यमिति न भवति / यथायथमिति मकारान्तमव्ययं यथास्वमित्यर्थे आश्रीयते इति यथास्वे यथायथमिति नारभ्यते / ___ 2311 वीप्सायाम् / / 7 / 4 / 80 // पृथक्संख्यायुक्तानां बहूनां सजातीयानामर्थानां साकल्येन प्रत्येकं क्रियया गुणेन द्रव्येण जात्या वा युगपत्प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा / तस्यां यद् वर्तते शब्दरूपं तद् द्विरुच्यते / वीप्सा च स्याद्यन्तेष्वेव भवतीति तेषामेव द्विवचनम् / वृक्ष वृक्षं सिञ्चति / ग्रामो ग्रामो रमणीयः। गृहे मृहे अश्वाः / योद्धा योद्धा क्षत्रियः। तथा रूपं रूपं पश्यति / शुक्लं शुलमानयति / क्रियां क्रियामारभते / उपचरितभेदस्यापि भवति / खिन्नः खिन्नो विश्राम्यति / क्षीणः क्षीणः पयः पिबति / व्यापकधर्मस्यापि व्याप्यताभेदोपचाराद् भेदे सति व्यापकान्तरापेक्षायां वीप्सा भवति / स एवान्योऽन्यः संपद्यते / नवो नवो भवति जायमान इति / आढ्यतरमाढ्यतरमानय / अत्र द्विवचनात्मागातिशायिकः। वीप्सायामिति किम् / वृक्षं सिञ्चति / जात्येकशेषेतरेतरयोगक्रमाभिधानेषु सत्यामपि व्याप्तौ यथो