________________ [तद्धित 468 सिद्धहैमबृहत्पक्रिया. 2306 आधिक्यानुपूयें // 74 / 75 // आधिक्यं प्रकर्षः। आनुपूर्य क्रमानुल्लङ्घनम् / एतयोर्यच्छब्दरूपं वर्तते तद् द्विरुच्यते / आधिक्ये-नमो नमः / अधिकं नम इत्यर्थः। कन्या दर्शनीया कन्या दर्शनीया। अहो दर्शनीया अहो दर्शनीया / मह्यं रोचते मह्यं रोचते / एष तवाञ्जलिरेष तवाञ्जलिः / मह्यं रोचतेतराम मह्यं रोचतेतराम् / अत्र प्रागातिशायिकः पश्चाद् द्वित्वम् / आनुपू]-मूले मूले स्थूलाः। अग्रे अग्रे सूक्ष्माः। ज्येष्ठं ज्येष्ठमनुप्रवेशय। कनिष्ठं कनिष्ठमासय। मूलाद्यानुपूर्येणैषां स्थौल्यादय इत्यर्थः। अग्रमूलमध्यानि त्रयो भागाः तत्रैकमेव मुख्यमग्रं मूलं च / अन्येषां तु भागानामपेक्षाकृतोऽग्रमूलव्यपदेशः। अधःसन्निविष्टमपेक्ष्याग्रव्यपदेशः। उपरिसंनिविष्टमपेक्ष्य मूलव्यपदेशः / न चैकरूपं भागानां स्थौल्यं सौक्ष्म्यं वा किं तर्हि यथामूलमुपचीयते स्थौल्यं यथाग्रं च सौक्ष्म्योपचय इति वीप्सा नास्ति / एवं ज्येष्ठबकनिष्ठत्वयोरपि आपेक्षिकत्वाद्वीप्सा नास्तीति वचनम् / .. 2307 डतरडतमौ समानां स्त्रीभावप्रश्ने / / 7 / 4 / 76 // समानां केनचिद् गुणेन तुल्यतया संप्रधारितानां स्त्रीलिङ्गस्य भावस्य प्रश्ने यद् वर्तते डतरान्तं डतमान्तं च शब्दरूपं तद् द्विरुच्यते। उमाविमावाढयौ कतरा कतरा अनयोराढ्यता किं देवकृता उत पौरुषकृतेत्यर्थः / कतमा कतमा अनयोराब्यता किं साधनसंबन्धकृता उतान्यसंबन्धकृता आहोस्विदुभयसंबन्धकृतेत्यर्थः। एवं सर्व इमे आढ्याः कतरा कतरा एषामान्यता। कतमा कतमा एषामान्यता / सर्व इमे आब्याः यतरा यतरा एषां विभूतिः ततरा ततरा कथ्यताम् / यतमा यतमा एषां संपत् ततमा ततमा कथ्यताम् / डतरडतमाविति किम् / उमाविमावाढयौ कानयोराढ्यता / समानामिति किम् / आन्योऽयं कतरस्य कतमस्याढ्यता / स्त्रीग्रहणं किम् / उमाविमावाढयौ कतरदनयोराढ्यखम् / कतमोऽनयोविभवः। भावग्रहणं किम् / उभाविमौ लक्ष्मीवन्तौ कतरा कतमाऽनयोर्लक्ष्मीः / लक्ष्यतेऽनया पुण्यकर्मेति लक्ष्मीः / इयं स्त्री भवति न भाव इति / प्रश्न इति किम् / उभाविमावाढ्यौ यतराऽनयोराब्यता ततरा श्रूयताम् / केचिड्डतरडतमाभ्यां स्त्रीलिङ्गाच्चान्यतापीच्छन्ति / उमाविमावाढ्यौ कीदृशी कीदृशी अनयोरान्यता कतरत्कतरदनयोराढयखम् / कतमः कतमोऽनयोविभवः। कतराऽनयोराढ्यतेत्यादौ प्राप्ते स्वार्थिकं द्विवचनम् / __2308 पूर्वप्रथमावन्यतोऽतिशये // 7 / 477 // पूर्वशब्दः प्रथमशब्दश्चान्यतोऽतिशये तदर्थस्य प्रकर्षे द्योत्ये द्विरुच्यते / आतिशायिकाऽपवादः / पूर्व पूर्व