________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 467 मातुःष्वसा मातुःष्वसा। हीणो हीणः। कृतद्विर्वचनानामपि रूपार्थयोरभेदेन स्थानिवद्भावेन चैकपदत्वात् कौतस्कुतः पौनःपुन्यमित्यादिषु तद्धितः सिद्धो भवति / ____2304 भृशाभीक्ष्ण्याविच्छेदे द्विःप्राक्तमबादेः / / 7 / 4 / 73 // क्रियायाः साकल्यमवयवक्रियाणां कात्न्य भृशार्थः / पौनःपुन्यमाभीक्ष्ण्यम् / सातत्यं क्रियान्तरैरव्यवधानमविच्छेदः। एतेषु द्योत्येषु यत्पदं वाक्यं वा वर्तते तत्तमबादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते / भृशे-लुनीहि लुनीहि इत्येवायं लुनाति / अधीष्वाधीष्वेत्येवायमधीते। आभीक्ष्ण्ये-भोज भोजं व्रजति / भुक्त्वा भुक्त्वा व्रजति। अविच्छेदेपचति पचति / अधीते अधीते / ब्रह्मचर्य चरति चरति / प्रपचति प्रपचति / सत्करोति सत्करोति / अलंकरोति अलंकरोति / भृशादयश्च क्रियाधर्मा इति क्रियापदमेवात्र संबध्यते। क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसायात् भृशादियोगे द्विवचनं भवति। यथा पुनः पुनः पचति। भूयोभूयः पठति। वारंवारं भुङ्क्ते / मुहुर्मुहुः पिबति / शनैः शनैर्गच्छति। मन्दं मन्दं तुदति। स्तोकं स्तोकं चलति। पृथक् पृथक् अभिधत्ते / यदा तु क्रियारूपता न विवक्ष्यते तदा 'नवा गुणः सदृशे रित् ' इति सादृश्ये द्विवचनं भवति / मन्दं मन्दं तुदति / स्तोकं स्तोकम् / अस्तमयति इति / एतेष्विति किम् / लुनीहि, भुक्त्वा व्रजति / पचति / भृशाभीक्ष्ण्ययोर्यङिति यडन्तमुक्तार्थवान्न द्विरुच्यते / यदा तु भृशाथै यङ् तदाभीक्ष्ण्यार्थाभिव्यक्तये द्विर्वचनम् पापच्यते पापच्यते / यदा तु तत्पतिपादनाय पञ्चमी विधीयते तदा तस्या द्विर्वचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामर्थ्य क्त्वाणमोरिवेति द्विर्वचनमपि भवति पापच्यस्व पापच्यस्वेति / प्राक्तमबादेरिति किम् / पचतिपचतितमाम् / पचतिपचतितराम् / अत्र तमबादेरातिशायिकात् पूर्वमेव द्विवचनं पश्चात्तमवादिः। अन्यथा ह्यनियमः स्यात् / 2305 नानावधारणे // 74 / 74 // नानाभूतानां भेदेनेयत्तापरिच्छेदो नानावधारणम्। तस्मिन् यच्छब्दरूपं वर्तते तद् द्विरुच्यते / योगविभागात प्राक्तमबादेरिति नानुवर्तते / अस्मात् कार्षापणादिह भवद्भयां माषं मापं देहि / पत्येक माषमात्रं देहि नाधिकमित्यर्थः। द्वौ द्वौ देहि / त्रीन् त्रीन् देहि / एषु कार्षाषणसंबंधिनो माषा न साकल्येन दित्सिताः कितर्हि प्रत्येकं माषमात्रमेव द्वावेव त्रयएवेति न वीप्सास्ति / नानाग्रहणं किम् / अस्मात् कार्षापणादिह भवद्भयां माष देहि / एकमेवेत्यर्थः। अवधारण इति किम् / अस्मात् कार्षापणादिहभवद्भयां माष द्वौ त्रीन् वा देहि /