________________ सिद्धहैमबृहत्प्रक्रिया. [तद्धित - 2302 श्रुमच्छमीवच्छिखावच्छालावपूर्णावद्विदभृदाभिजितो गोत्रेऽणो यञ् // 7 / 2 / 68 // शस्त्रजीविसंघादिति निवृत्तम् / श्रुमच्छमीवच्छिखावच्छा. लावदूर्णावद्विदभृदभिजिदित्येतेभ्यो गोत्रे योऽण् तदन्तेभ्यः स्वार्थे यञ् प्रत्ययः स्यात् स च द्रिः। श्रुमतोऽपत्यमण् तदन्ताय / श्रीमत्यः श्रीमत्यौ श्रौमताः / श्रीमच्छब्दादपि केचिदिच्छन्ति / अमत्यः त्रैमत्यौ त्रैमताः। शामीवत्यः शामीवत्यौ शामीवताः। शैखावत्यः शैखावत्गै शैखावताः। शालावत्यः शालावत्यौ शालावताः। और्णावत्यः और्णावत्यौ और्णावताः। वैदभृत्यः वैदभृत्यौ वैदभृताः / आभिजित्यः आभिजित्यौ आभिजिताः। गोत्रग्रहणं किम् / श्रुमत इदं श्रीमतम्। आभिजितो मुहूर्तः। आभिजितः स्थालीपाकः / अपत्यप्रत्ययान्तात् स्वार्थिकोऽपत्य एव वर्तत इति तदाश्रयः प्रत्ययो भवति / श्रीमत्यस्यापत्यं युवा श्रीमत्यायनः / आभिजित्यायनः / अत्र यजिब इत्यायनण / श्रीमत्यस्यायं श्रीमतकः। आभिजितकः / अत्र गोत्राददण्डेत्यादिनाऽकञ् / श्रीमतानां समूहः श्रीमतकम् / आभिजि. तकम् / अत्र गोत्रोक्षेत्यादिनाऽकञ् / श्रीमत्यस्य संघादि श्रीमतम् / आभिजितम् / अत्र संघघोषेत्यादिनाण् / // इति श्रीसिद्धहैमबृहत्पक्रियायां तद्धित प्रकरणे स्वार्थिकाः समाप्ताः // // अथ द्विरुक्तप्रक्रिया // 2303 असकृत्संभ्रमे // 7472 // भयादिभिश्चित्तव्याक्षेपात् प्रयोक्तस्वरणं संभ्रमः। तस्मिन् द्योत्ये यत् प्रवर्तते पदं वाक्यं वा तदसकृदनेकवारं प्रयुज्यते / अहिरहिः। बुध्यस्व बुध्यस्व / अहिरहिरहिः। बुध्यस्व बुध्यस्ख बुध्यस्व / हस्त्यागच्छति हस्त्यागच्छति / लघु पलायध्वम् लषु पलायध्वम् / संभ्रमादौ पदं वाक्यं वा वर्तते न पदावयव इति नासौ असकृद द्विळ भवति / तच्च पदं वाक्यं वा परिनिष्पन्नं सत्तत्र वर्तते नापरिनिष्पन्नमिति कृतेषु यत्वादिकार्येषु तदसकृद् द्विर्वा भवति नाकृतेषु / तेन द्रोग्धा द्रोग्धा, द्रोढा द्रोढेत्येव भवति न तु द्रोग्धा द्रोढा द्रोढा द्रोग्धा / एवं माषवापाणि माषवापाणि /