________________ पकरणम् ] सिद्धहैमबृहत्प्रक्रिया. क्षौद्रक्यः क्षौद्रक्यौ क्षुद्रकाः। मालव्यः मालव्यौ मालवाः। वाहीकेष्विति किम् / शबराः शस्त्रजीविसंघः। शबरः शबरौ। पुलिन्दः पुलिन्दौ / अब्राह्मणराजन्येभ्य इति किम् / गौपालिः। गौपाली / शालङ्कायनः। शालङ्कायनौ / राजन्यः। राजन्यौ / काम्बव्यः / काम्बव्यौ / स्त्रियां राजन्या। काम्बव्या / व्यटि तु डीः स्यात् / ब्राह्मणप्रतिषेधे ब्राह्मणविशेषप्रतिषेधः। न हि ब्राह्मणशब्दवाच्यो वाहीकेषु शस्त्रजीविसंघोस्ति / राजन्ये तु स्वरूपस्य विशेषस्य च प्रतिषेधः। तदर्थमेव बहुवचनम् / शस्त्रजीविसंघादित्येव / मल्लः / शयण्डः / सम्राट् / वागुरः / 2298 वृकाट्टेण्यण् // 7 // 3 // 64 // वृकशब्दाच्छखजीविसंघवाचिनः खार्थे टेण्यण् प्रत्ययः स्यात् स च द्विः। वार्केण्यः वार्केण्यो वृकाः। टकारो ड्यर्थः। वार्केणी स्त्री / शस्त्रजीविसंघादित्येव / कामक्रोधौ मनुष्याणां खादितारौ काविव / वाहीकत्वे नित्यमवाहीकत्वे तु विकल्पेन व्यटि प्राप्ते वचनम् / एवमुत्तरसूत्रत्रयमपि। ____2299 यौधेयादेरञ् // 7 // 3 // 65 // यौधेयादिभ्यः शस्त्रजीविसंघवाचिभ्योऽञ् प्रत्ययः स्यात् स च द्रिः। युधाया अपत्यं बहवः कुमारास्ते शस्त्रजीविसंघः यौधेयः यौधेयौ यौधेयाः / एवं शौभ्रेयः / शौक्रेयः। घार्तेयः / धार्तेयः / ज्याव. नेयः। अवचनं 'संघघोषाङ्कलक्षणेब्यवित्रः' इत्यणर्थम् / तेन यौधेयस्य संघा. दियौधेय इति भवति / ननु यौधेयादयः संघवचनाः कथं गोत्रं भवन्ति उच्यते / भर्गाद्यन्तर्गणो यौधेयादिस्तत्र येऽपत्यप्रत्ययान्तास्ते गोत्रं भवन्ति औपगवादिवत् / अपत्यं हि गोत्रम् / अपत्यप्रत्ययान्ताच स्वार्थिकोऽप्यपत्यग्रहणेन गृह्यते / अत्र चेदमेव अव्वचनं लिङ्गम् / 2300 पर्खादेरण् ! / 7 / 3 / 66 // पशु इत्येवमादिभ्यः शस्त्रजीविसंघवाचिभ्यः स्वार्थेऽण प्रत्ययः स्यात् स च द्रिः। पगैरपत्यं बहवो माणवकाः पर्शवः। द्विस्वखादण लुप् / शस्त्रजीविसंघः पार्शवः पार्शवी पर्शवः / राक्षसः राक्षसौ रक्षांसि / स्त्रियां तु 'द्रेरणोऽपाच्यभर्गादेः' इति लुप् / पशुः / अणो लुपि उतोऽमाणिनश्चेत्यादिनो। ___ 2301 दामन्यादेरीयः // 73 // 67 // दामन्यादिभ्यः शस्त्रजीविसंधेभ्यः स्वार्थे ईयः प्रत्ययः स्यात् स च द्रिः / दमनस्यापत्यं बहवः कुमारास्ते शस्त्रजीविसंघः दामनीयः दामनीयौ दामनयः / औलपीयः औलपीयौ औलपयः / .....