________________ वद्धित 464 सिद्धहैमबृहत्पक्रिया. 2292 नित्यं अभिनोऽण् // 7 / 3 / 58 // अजिन् इत्येतत्पत्ययान्तात् स्वार्थे नित्यमण् प्रत्ययः स्यात् / नित्यग्रहणान्महाविभषा निवृत्ता / व्यावक्रोशी। व्यावलेखी / व्यावहासी वर्तते / जिन्-सांकूटिनम् / सांराविणम् / सांमार्जिनम् / / ___2293 विसारिणो मत्स्ये // 7 // 3 // 59 // विसारिन्शब्दान्मत्स्ये वर्तमानास्वार्थेऽण् प्रत्ययः स्यात् / विसरतीति विसारी। ग्रहादिवाण्णिन् / मत्स्यश्चेद्वैसारिणः / मत्स्य इति किम् / विसारी देवदत्तः। ___2294 पूगादमुख्यकाो द्रिः // 1360 // नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः संघाः पूगाः। पूगवाचिनो नाम्नः स्वार्थे व्यः प्रत्ययः स्यात् स च दिसंज्ञः न चेत्पूगवाचि नाम 'सोऽस्य मुख्यः' इति विहितकपप्रत्ययान्तं भवति / लौहध्वज्यः लौहध्वज्यौ लोहध्वजाः पूगाः। शैब्यः शैब्यौ शिवयः। वातक्यः वातक्यौ वातकाः। द्रित्वात् बहुष्वस्त्रियां लुप् / अमुख्यकादिति किम् / देवदत्तो मुख्योऽस्य देवदत्तकः, इन्द्राग्निलुप्तकः पूगः। 2295 वातादस्त्रियाम् // 7 / 3 / 61 // नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाताः / वातवाचिनोऽस्त्रियां वर्तमानात् स्वार्थे व्यः प्रत्ययः स्यात् स च दिसंज्ञः। कापोतपाक्यः कापोतपाक्यो कपोतपाकाः। हिमत्यः त्रैहिमत्यो व्रीहिमताः। अस्त्रियामिति किम् / कपोतपाका / व्रीहिमता स्त्री। 2296 शस्त्रजीविसंघाच्यड् वा // 73 / 12 / / शस्त्रजीविनां यः संघस्तद्वाचिनः स्वाथै व्यट् प्रत्ययो वा स्यात् स च द्रिसंज्ञः। शाबर्यः शाबरों शबराः / पौलिन्धः पौलिन्द्यौ पुलिन्दाः। कुन्तेरपत्यं बहवो माणवकाः कुन्तयः। ते शस्त्रजीविसंघः कौन्त्यः कौन्त्यौ कुन्तयः। पक्षे शबरः, पुलिन्दः। शस्त्रजीविग्रहणं किम् / मल्लाः संघः। मल्लः मल्लौ मल्लाः। शयण्डः शयण्डौ शयण्डाः। संघादिति किम / सम्राट् / वागुरः वागुरौ वागुराः / नैते श्रेणिबद्धा इति न संघः। टकारो ङयर्थः। शाबरी / पौलिन्दी / कौन्ती / 2297 वाहीकेष्वब्राह्मणराजन्येभ्यः // 7 / 3 / 63 // वाहीकेषु यः शस्त्रजीविसंघो ब्राह्मणराजन्यवर्जितस्तद्वाचिनः स्वार्थे ज्यट प्रत्ययो नित्यं स्यात् स च दिसंज्ञः। कुण्डीविशाः शखजीविसंघः। कौण्डीविश्यः कौण्डीविश्यौ कुण्डीविशाः।