________________ प्रकरणम्] सिद्धहैमहत्मक्रिया. वावचनमगर्थम् / यको भवतां कठः सक आगच्छतु इत्यादि / अन्यक एषां कालापः / किमस्तु साकः कादेश उक्तः / महावाधिकारात् प्रत्ययो न भवत्यपि। यो भवतां कठः स आगच्छतु / बहूनामिति किम् / योऽस्मिन् ग्रामे कंठः स आगच्छतु / प्रश्न इति किम् / क्षेपे मा भूत् / को भवतां कठः कुत्सित इत्यर्थः। प्रश्नग्रहणं किमो विशेषणं नान्यस्यासंभवात् / अन्ये खाहुः यत्तत्किभ्यो जातावेव डतमः, डतरस्तु बहूनां निर्धायें किम एव न यत्तद्भयाम् , स च जातावेव / अन्यशब्दादपि बहुविषये डतम एव नतु इतरः। डतरडतमौ च निर्धायें अन्यशब्दानित्यावेव नाक् , नापि केवलस्य प्रयोगः, एके त्वविशेषेणेत्यत्राभिधानमनुसतव्यम् / 2289 नैकात् // 7 // 3 // 55 // एकशब्दाबहूनामेकस्मिन्निर्धार्थेऽर्थे वर्तमानात् डतमः प्रत्ययो वा स्यात् / एकतमो भवतां कठः पटुर्गन्ता देवदत्तो दण्डी वा / वावचनादक् / एककः / महावाधिकारान्न भवत्यपि। एको भवतां कठः। पृथग्योगो डतरनिवृत्त्यर्थः। 2290 क्तात्तमबादेश्चानत्यन्ते॥७॥३॥५६॥ तान्तात् केवलात्तमबायन्ताचानत्यन्तेऽर्थे वर्तमानात् कप् प्रत्ययः स्यात् / क्रियायाः स्वेनाश्रयेण साकल्येनानभिसंन्धोऽनन्यन्तता। अनत्यन्तं भिन्न भिन्नकम् / अनत्यन्त छिनं छिन्नकम् / अनत्यन्तं भिन्ना भिन्निका घटी। छिनिका रज्जुः। तमवाद्यन्तात् क्तान्तात्-अनत्यन्तं भिन्नतमं भिन्नतमकम् / एवं भिन्नतरकम् / भिन्नकल्पकम् / छिन्नतमकम् / छिन्नतरकम्। छिन्नकल्पकम् / तमबाद्यन्तेषु क्तान्तता नास्तीति तमवादिग्रहणम् / असमा. सस्तमवादेरित्यत्रापि क्तादित्यस्य संबन्धार्थः। तेनेह न भवति / अनत्यन्तं शुक्लतमम् / ____2291 न सामिवचने // 7 / 3 / 57|| सामि अर्धः। सामिवचने उपपदे अनत्यन्तेऽर्थे वर्तमानात् क्तान्तात् केवलात्तमवाद्यन्ताच कप् प्रत्ययो न स्यात् / सामि अनत्यन्तं भिन्नम् / भिन्नतमम् / भिन्नतरम् / वचनग्रहण पर्यायार्थम् / एवं कृतं भुक्तम् / पीतम् / अर्धमनत्यन्तं भिन्नम् / नेममनत्यन्तं भिन्नम् / एवं शकलं खण्डमित्यादि / अन्ये तु समास एवोदाहरन्ति / सामिकृतम् अर्धकृतमिति / ननु साम्यादिभिरेवानन्तताया अभिहितवादुक्तार्थत्वेन कप न मामोतीति व्यर्थः प्रतिषेधः। उच्यते / साम्यादिभिः समुदायविषयक्रियाया एवानत्यन्तता प्रतीयते न स्वविषये / तत्रानत्यन्तविवक्षायां कम मामोतीति मतिषेधवचनम् /