________________ 462 सिद्धहैमबृहत्प्रक्रिया. [तद्धित पित् / इसितो वत्सः वत्सरः। वत्सः प्रथमवयस्को गौः तस्य हासो द्वितीयवयःप्राप्तिः / इसित उक्षा उक्षतरः। उक्षा द्वितीयवयास्तरुणस्तस्य हासस्तृतीयवयःप्राप्तिः / इसितोऽश्वोऽश्वतरः / अश्वेनाश्वायां जातोऽश्वस्तस्य हासो गर्दभपितृकता। आशुगमनाद्वाश्वस्तस्य हासो गमने मन्दता / सर्वथाश्वतरशब्दो जातिशब्दः। इसित ऋषभः ऋषभतरः। ऋषभोऽनड्वान् बलीयान् तस्य हासो भारवहने मन्दशक्तिता। प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तस्य हासे भवति / इह मा भूत् / कृशो वत्सो वत्सतर इति / पित्करणं पुंवद्भावार्थम् / इसिता वत्सा वत्सतरी / इसिताश्वा अश्वतरी। 2286 वैकाद् द्वयोनिर्धार्ये डतरः // 7 // 3152 // समुदायादेकदेशो जातिगुणक्रियासंज्ञाद्रव्यनिष्कृष्य बुद्धया पृथक् क्रियमाणो निर्धायः। एकशब्दाद् द्वयोर्मध्ये निर्धार्थेऽर्थे वर्तमानात् डतरः प्रत्ययो वा स्यात् / एकतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा वावचनम् अगर्थम् / एकको भवतोः कठः पटुर्वा / महावाधिकारात्प्रत्ययो न भवत्यपि / एको भवतोः पटुः / द्वयोरिति किम् / एकोऽस्मिन् ग्रामे प्रधानम् / निर्धार्य इति किम् / एकोऽनयोमियोः स्वामी। 2287 यत्तत्किमन्यात् // 73 // 53 // यद् तद् किम् अन्य इत्येतेभ्यो द्वयोरेकस्मिन् निर्धार्यऽर्थे वर्तमानेभ्यो डतरः प्रत्ययः स्यात् / यतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा ततर आगच्छतु / कतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा / अन्यतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा / महावाधिकारात् प्रत्ययो न भवत्यपि / यो भवतोः पटुः / स आगच्छतु / को भवतोः पटुः / अन्यो भवतोः पटुः द्वयोरित्येव / योऽस्मिन् ग्राम प्रधानं स आगच्छतु / निर्धार्य इत्येव / योऽनयोामयोः स्वामी स आगच्छतु / 2288 बहूनां प्रश्ने डतमश्च वा // 7 / 3 / 54 // यद् तद् किम् अन्य इत्येतेभ्यो बहूनां निर्धार्येऽर्थे वर्तमानेभ्यः प्रश्नविषये डतमः प्रत्ययो वा स्यात् चकाराड्डतरश्च / यतमो यतरो वा भवतां कठस्ततमस्ततरो वा आगच्छतु / कतरः कतमो वा भवतां कठः / प्रमाणान्तरात् प्रतिपत्तौ बहूनामप्रयोगेऽपि भवति / यथा बहुष्वासीनेषु कश्चित् पृच्छति कतमः कतरो वा देवदत्तः। अन्यतरो अन्यतमो वा भवतां कठः। शुचिवल्कवीतवपुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः / दृद्धस्तु व्याधितो वा राजा मातृबन्धुकुल्यगुणवत्सामन्तानामन्यतमेम्न क्षेत्रे बोजमुत्पादयेत् /