________________ प्रकरणम् ] - सिद्धहैमबृहत्मक्रिया. बृहस्पतिशर्मा वा बृहस्पतियः, बृहस्पतिकः, बृहस्पतिलः / एवं प्रजापतियः प्रजापतिकः प्रजापतिलः। अकृतसन्धेरित्येव पूर्ववत् प्रजापत्याशीर्दत्तोऽनुकम्पितः प्रजापतिक इति यथा स्यात् प्रजापत्यिक इति मा भूत् / कचिद्ग्रहणादिह न भवति / अनु कम्पितः उपेन्द्रदत्तः उपडः, उपकः, उपियः, उपिलः। 2279 पूर्वपदस्य वा // 73 / 4 / / अनुकम्पायां विहिते स्वरादौ प्रत्यये पूर्वपदस्य लुग् वा स्यात् / अनुकम्पितो देवदत्तः दत्तियः, दत्तिकः, दत्तिलः / वावचनाद्यथामाप्तम् / द्वितीयात्स्वरादू इति लुक् / 2280 हस्वे // 3246 // दीर्घप्रतियोगि इस्वम् / इस्वेऽर्थे वर्तमानाच्छब्दरूपाद्यथायोगं कबादयः प्रत्ययाः स्युः / इस्वः पटः पटकः / इस्वं पचति पचतकि / इस्वकालयोगात क्रिया ह्रस्वेत्युच्यते / इस्वाः सर्वे सर्वके / विश्वके। उच्चकैः। नीचकैः / तूष्णीकाम् / संज्ञायामपि इस्वत्वयोगात् कप् , स इस्व इत्येव सिद्धः। वंशकः / वेणुकः / नडकः (नरकः)। ललकः / वरकः / 2281 कुटीशुण्डाद्रः // 7 // 3 // 47 // कुटी शुण्डा इत्येताभ्यां इस्वेऽर्थे वर्तमानाभ्यां रः प्रत्ययः स्यात् / कपोऽपवादः। इस्वा कुटी कुटीरः / शुण्डारः / केचित्तु कुटीस्थाने कुदी पठन्ति / कुदीरः / 2282 शम्या रुरौ // 7 // 3 // 48 // शमीशब्दात् इस्वेऽर्थे वर्तमानात् रु र इत्येतौ प्रत्ययौ स्याताम् / ह्रस्वा शमी शमीरुः शमीरः। 2283 कुत्वा डुपः // 7 // 3 // 49 // कुतूशब्दाद् इस्वेऽर्थे वर्तमानात् स्वार्थे डुपः प्रत्ययः स्यात् / हूस्वा कुतूः कुतुपः / कुतूरिति चर्ममयं तैलाधावपनमुच्यते / - 2284 कासूगोणीम्यां तरट् / / 7 / 3 / 50 // काम गोणी इत्येताभ्यां इस्वेऽर्थे वर्तमानाभ्यां तरट् प्रत्ययः स्यात् / इस्वा कामः कास्तरी / गोणीतरी / पुंलिङ्गमपि दृश्यत इत्येके / कास्तरः / गोणीतरः। कामः शक्ति मायुधम् / गोणी धान्यावपनम् / टकारो ङयर्थः। 2285 वत्सोक्षाश्वर्षभाद्रासे पित् // 7 / 3 / 51 वत्स उक्षन् अश्व ऋषभ इत्येतेभ्यः शब्दप्रवृत्तिनिमित्तस्य स्वार्थस्य हासे गम्यमाने तरट् प्रत्ययः स्यात् स च