________________ 36 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. अषू इति प्रतिषेधेन नकारेण व्यवहितेऽपि नामि दीर्घा ज्ञाप्यते / सप्तम्येकवचने देवे / द्वित्वे देवयोः / बहुवचने, एबहुस्भोसीत्येत्वे देवे सु इति स्थिते / 192 नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिड्नान्तरेऽपि // 2 / 3 / 15 // नामिनोऽन्तस्थायाः कवर्गाच परस्य पदमध्ये वर्तमानस्य केनचित् मूत्रेण विहितस्य वा सस्य षः स्यात्, शिटा नकारेण च व्यवधानेऽपि स्यात् / देवेषु / नकारस्यावश्यम् अनुखारभवनान् शिड्ग्रहणेनैव सिद्धे नकारोपादानं नकारस्थानेनैवानुसारेण यथा स्यादित्येवमर्थम् / तेन मकारानुसारेण न भवति / पुंसु / शिटा नकारेण चांतरे, इति प्रत्येकं वाक्यपरिसमाप्रुभयव्यवधाने न भवतिनिस्से / नाम्यन्तस्थाकवर्गादिति किम् / असौ / दास्यति / पदान्तरिति किम् / पदादौ पदान्ते च मा भूत् / दधिसेक् / अत्रान्तर्वतिन्या विभक्त्या सेक्शब्दस्य पदत्वात् सकारस्य पदादित्वम् / अनिस्तत्र / कृतस्येति किम् / बिसम् / अथ बिसंबिसमित्यादौ द्वित्वे कृते सकारस्य षत्वं कस्मान्न भवति / उच्यते / नात्र कृतः सकारः, किंतु तत्संपृक्तःसमुदायो द्विरुच्चार्यते / तिमभिरित्यत्र तु विधानबलान भवति / संबोधनेऽपि प्रथमाया एव प्रत्ययास्तत्र 193 अदेतः स्यमोलक् // 1 // 4 // 44 // अकारान्तादेकारान्ताच्चामंत्र्येऽर्थे वर्तमानात् परस्य सेस्तदादेशस्यामश्च लुक् स्यात्। संबोधनाभिव्यक्तये ऐशब्दस्य प्राक् प्रयोगः / हे देव / हे देवौ / हे देवाः / अदेत इति किम् / हे गौः / स्यादेशत्वेनैवामोऽपि लुकि सिद्धायां पृथग्वचनमन्यस्यादेशस्य लुगभावार्थम् , तेन हे कतरदित्यादौ लुग्न भवति / एवं देवशब्दवत् घटपटादयोऽप्यकारांताः पुल्लिङ्गा ज्ञेयाः। __सर्वादीनां तु विशेषः / सर्व, विश्व, उभ, उभयट , अन्य, अन्यतर, इतर, डतर, डतम, त्व, त्वत् , नेम, सम, सिम, पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम् , स्वमज्ञातिधनाख्यायाम् , अन्तरं बहिर्योगोपसव्यानयोरपुरि, त्यद् , तद् , यद्, अदस् , इदम् , एतद्, एक, डि, युष्मद् , भवतु, अस्मद् , किम् , इत्यसंज्ञायां सर्वादिः। तत्र उभशब्दस्य द्विवचनस्वार्थिकप्रत्ययविषयत्वात् स्मैप्रभृतिकार्य न भवति। तस्येह गणपाठस्तु हेत्वर्थप्रयोगे सर्व विभत्तयर्थः / उभयट् इति टकारो ङ्यर्थः अस्य च द्विवचनाभावः। एवं च द्वित्वे उभशब्द एकत्वबहुत्वयोश्चोभयशब्दः प्रयोज्यः / डतरग्रहणेनैव सिद्धेऽन्यतरशब्दग्रहणं डतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादित्वनिवृत्त्यर्थम् / एक त्वाहुः-'नायं डतरप्रत्ययान्तोऽन्यतरशब्दः किंतु अव्युत्पन- .