________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 459 2271 ऋवर्णोवर्णात्स्वरादेरादेर्लुक् प्रकृत्या च // 7 // 3 // 37 // ऋवर्णान्तादुवर्णान्ताच्च परस्यानुकम्पायां विहितस्य स्वरादेः प्रत्ययस्यादेर्लुक् स्यात् तच्च ऋवर्गोवर्णान्तं लुकि सति प्रकृत्या तिष्ठति / न विकारमापद्यत इत्यर्थः / अनुकम्पितो मातृदत्तः मातृयः, मातृकः, मातृलः / अनुकम्पितो वायुदत्तः / वायुयः, वायुकः, वायुलः। अनुकम्पितो भानुदत्तः भानुयः। भानुकः भानुलः। प्रकृतिवद्भावात् रेफावादेशौ न भवतः। ऋवर्गोवर्णादिति किम् / अनुकम्पितो देवदत्तो देवियः, देविकः, देविलः। अनुकम्पितो वागाशीः वाचियः वाचिकः वाचिल;। स्वरादेरिति किम् / मद्रबाहुकः ।आदेरिति किम् / सर्वस्य मा भूत् / 2272 लुक्युत्तर पदस्य कपन् / / 7 / 3 / 38 // नृनाम्नो यदुत्तरपदं तस्य ते लुग्वेति लुकि सति ततः कप्न् प्रत्ययः स्यात् अनुकम्पायां गम्यमानायाम् / कबादीनामपवादः / देवदत्तो देवः / अत्र ' ते लुग्वा' इत्युत्तरपदलोपः / अनुकम्पितो देवः देवकः। एवमनुकम्पितो यज्ञः यज्ञकः। पकारः पुंवद्भावार्थः। नकारः 'इचापुंसोऽनित्क्याप्परे' इत्यत्र पर्युदासार्थः / अनुकम्पिता देवी देवका / अत्र कमि सति पित्त्वात् पुंवद्भावे नित्त्वादाप्परेऽपि ककारे इत्वं न भवति। उत्तरपदस्येति किम् / देवदत्ता दत्ता / अत्र ' ते लुग्वा' इति पूर्वपदस्य लुक् / अनुकम्पिता दत्ता दत्तिका / पूर्वेण कप् / __2273 लुक् चाजिनान्तात् // 7 // 3 // 39 // अजितशब्दान्तान्मनुष्यनाम्नोऽनुकम्पायां गम्यमानायां कप्न् प्रत्ययः स्यात् तत्संनियोगे लुक् चोत्तरपदस्य / व्याघ्राजिनो व्याघ्रमहाजिनो वा नाम मनुष्यः सोऽनुकम्पितो व्याघ्रकः। एवं सिंहकः। शरभकः / वृककः / उलकः। अनुकम्पिता व्याघ्राजिना व्याघ्रमहाजिना वा व्याघ्रकाः। सिंहकाः / आतो नेन्द्रवरुणस्येत्यत्र ज्ञापनादकृतसंधेरेवोत्तरपदस्य लुक् / 2274 षड्व कस्वरपूर्वपदस्य स्वरे // 73 // 40 // पशब्दवर्जितमेकस्वरं पूर्वपदं तस्य तत्संबन्धिन उत्तरपदस्यानुकम्पायां विहिते स्वरादौ प्रत्यये लुक् स्यात् / उत्तरसूत्रस्यापवादः। अनुकम्पितो वागाशीः वाग्दत्तः वागाशीदत्तो वा वाचियः, बाचिकः, वाचिलः / एवं त्वचियः / त्वचिकः / त्वचिलः / स्रचियः / चिकः / स्रुचिलः / षड्व कस्वरपूर्वपदस्येति किम् / उपेन्द्रेण दत्तः उपेन्द्रदत्तः, सोऽनुकंपितः उपडः उपकः उपियः उपिकः उपिलः। उत्तरेण लुक् / पड्वर्जेति किम् / अनुक