SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 458 सिद्धहैमबृहत्मक्रिया. [तद्धित व्याकरणेन नाम त्वं गर्वितः, याज्ञिक्यकेन नाम त्वं विकत्थसे इत्यादौ अवक्षेप णमपि कुत्सितमेव / न ह्यकुत्सितेनावक्षिप्यते / 2268 अनुकम्पातयुक्तनीत्योः / / 7 / 3 / 34 // अनुकम्पा कारुण्येन परस्यानुग्रहः / तया अनुकम्पया युक्ता नीतिस्तद्युक्तनीतिः / नीतिः सामादिप्रयोगः / तत्रानुकम्पायां सामोपप्रदाने एव न भेददण्डौ तयोः अनुकम्पाया अयोगात् / अनुकम्पायां तद्युक्तायां नीतौ च गम्यमानायां यथायोगं कबादयः स्युः / अनुकम्पा तन्नीतिश्च प्रयोक्तधर्मी वेदितव्यो। पुत्रकः / वत्सकः। बालकः बुभुक्षितः। ज्वरितकः। शनकैः / तूष्णीकाम् स्वपितकि / स्वपिषकि / जल्पतकि। एहकि / अनुकम्पमान एवं प्रयुक्ते पुत्रक एहकि उत्सुङ्गके उपविश कर्दमकेनासि दिग्धकः कण्टकस्ते लग्नकः / वत्सक तूष्णीकां तिष्ठ ओदनं भोक्ष्यसे हन्त ते गुडका हन्त ते धानकाः अद्धकि / अत्रोपविश असि तिष्ठ ओदनं भोक्ष्यसे हन्त ते इत्येतेषु अनभिधानान्न भवति / यत्र खभिधानं तत्र भवति / नक त्वकं पुत्रक पश्यसकि। असको काकको वृक्षके उच्चकैः प्रणिलीयते / अनुकम्पायां प्रत्यासत्तेरनुकम्प्यमानादेव स्यात् नान्यस्मात् उत्सङ्गादेस्ततोऽपि यथा स्यादिति तद्युक्तनीतिग्रहणम् / 2269 अजातेन॒नाम्नो बहुस्वरादियेकेलं वा // 73 // 36 // तद्युक्तनीताविति न वर्तते अनुकम्प्यादेव प्रत्ययविधानात् / नृनाम्नो-मनुष्यनामधेयाद् बहुस्वरादनुकम्पायां गम्यमानायां इय इक इल इत्येते प्रत्यया वा स्युः अजातेः-न चेन्मनुष्यनाम जातिशद्धो भवति अनुकम्पितो देवदत्तः देवियः देविकः, देविलः / वा वचनात् कबपि / देवदत्तकः। जिनियः। जिनिकः। जिनिलः। जिनदत्तकः। अजाते रिति किम् / महिषकः / वराहकः। शरभकः। सूकरकः / गर्दभकः। एते जातिश्चद्वा मनुष्यनामानि च / अजातेरिति प्रायिको निषेधः इत्यन्ये / व्याघ्रिलः सिंहिल इति हि दृश्यते / तन्मते बहुस्वरादित्यपि प्रायिकम् / नृनाम्न इति किम् / सुसीमकः / नृग्रहणं किम् / अनुकम्पितो देवदत्तो हस्ती देवदत्तकः / नामग्रहणं किम् / मद्रवाहुकः / विशेषणमेतन्न नाम / बहुस्वरादिति किम् / रामकः / गुप्तकः / ____ 2270 वोपादेरडाको च // 7 // 3 // 36 // उपपूर्वादजातिरूपान्मनुष्यनामधेयाद् बहुस्वरादनुकम्पायां गम्यमानायां अड अक चकारात् इय इक इल इत्येते प्रत्यया वा भवन्ति / अनुकम्पित उपेन्द्रदत्तः उपडः। उपकः / उपियः / उपिकः। उपिलः। वावचनात् पक्षे कबपि। उपेन्द्रदत्तकः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy