________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. 490 वा कोपेन / नित्योऽपि रक्तो वर्णोऽस्ति यथा कृमिरागादिरक्ते पट इति रक्तग्रहणम् / अनित्यग्रहणं किम् / लोहित इन्द्रगोपकः। सत्येवाश्रयद्रव्येऽपयनिहानित्य उच्यते / अन्यथा रक्तग्रहणस्यानर्थक्यात् / वर्णग्रहणं द्रव्यनिवृत्त्यर्थम् / असति वर्णग्रहणे स्त्रीणामार्तवे द्रव्ये स्यात् / तद्धि सत्येवाश्रये स्त्रियां कदाचिन्न भवति लोहितशब्दवाच्यं च / ___2253 कालात् // 7 // 3 // 19 // कालशब्दात् कजलादिना रक्ते अनित्यवर्णे चार्थे वर्तमानात् कः प्रत्ययो वा स्यात् / रक्ते-काल एव कालकः पटः। अनित्यवर्णेकालकं मुखं वैलक्ष्येण / वाधिकारान भवत्यपि / कालः पटः / कालं मुखम् / 2254 शीतोष्णाहतौ // 7 // 3 // 20 // शीतोष्णशब्दाभ्यामृतौ वर्तमानाभ्यां कः प्रत्ययो वा स्यात् / शीत एव शीतकः, उप्णकः ऋतुः / ऋताविति किम् / शीतो वायुः / उष्णः स्पर्शः। 2255 लूनवियातात् पशौ // 7 // 3 // 21 // लूनवियातशब्दाभ्यां पशौ वर्तमानाभ्यां स्वार्थे कः प्रत्ययो वा स्यात् / लून एव लूनकः / वियातकः पशुः / पशाविति किम् / लूनो यवः। वियातो बटुः। विहानशब्दादपीच्छन्त्येके / विहानकः पशुः / विहान एवान्यत्र / 2256 स्नाताद् वेदसमाप्तौ // 7 // 3 / 22 // स्नातशब्दाद् वेदसमाप्तौ गम्यमानायां का प्रत्ययः स्यात् / वेदं समाप्य स्नातः स्नातकः। वेदसमाप्ताविति किम् / तीर्थ स्नातः. 2257 तनुपुत्राणुबृहतीशून्यात् सूत्रकृत्रिमनिपुणाच्छादनरिक्त // 7 // 3 // 23 // तनुपुत्राणुबृहतीशून्य इत्येतेभ्यो यथासंख्यं सूत्रकृत्रिमनिपुणाच्छादनरिक्त इत्येतेष्वर्थेषु वर्तमानेभ्यः स्वार्थे का प्रत्ययः स्यात् / तनोः सूत्रे, तनु सूत्रं तनुकं भङ्गादिमयं कल्पादि च / सूत्र इति किम् / तनुर्वशः / पुत्रात् कृत्रिमे, कृत्रिमस्तक्षादिव्यापारनिष्पादितः। कृत्रिमः पुत्रः पुत्रकः / कृत्रिम इति किम् / औरसः पुत्रः। अणोनिपुणे, निपुणो निष्णातोऽणुः अणुकः। निपुण इति किम् / अणुव्रीहिः। बृहत्या आच्छादने, बृहतिका आच्छादनविशेषः। प्रत्ययमन्तरेणार्थानवगमात् नित्य एवायं विधिः। आच्छादन इति किम् / बृहती छन्दः। बृहती ओषधिः। शून्याद्रिक्ते,