SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 454 सिद्धहैमबृहत्पक्रिया. [तद्धित ल्पकः / पटुदेश्यकः / पटुदेशीयकः / कप इति किम् / कुटीरतमः / पकारः किम् / लोहितकतमो मणिः। लोहितकतममक्षि कोपेन। अच्छिन्नादिभ्य इति किम् / कुत्सितोऽल्पोऽज्ञातो वा छिन्नः छिन्नकः। अयमेषामनयोर्वा अतिशयेन छिन्नकः छिन्नकतमः, छिन्नकतरः। छिन्नकरूपः। छिन्नककल्पः। छिन्नादयः प्रयोगगम्याः। " 2248 अनत्यन्ते // 73 / 14 // अनत्यन्तेऽर्थे यः कप् तदन्तात् तमवादिन स्यात् / छिन्नाद्यर्थं वचनम् / अनत्यन्तं छिन्नं छिन्नकम् / अनत्यन्तं भिन्न भिन्नकम् / इदमेषामनयोर्वा प्रकृष्टं छिन्न भिन्नकम् / यदा तु प्रकर्षवतोऽनत्यन्तविशिष्टविवक्षा तदा तमबाघन्तात् 'तात्तमबादेश्चानत्यन्ते' इति कब् भवत्येव / छिन्नतमकम् / छिन्नतरकम् / भिन्नतमकम् / भिन्नतरकम् / . 2149 यावादिभ्यःकः॥७३॥१५॥ याव इत्येवमादिभ्यः स्वार्थे कः प्रत्ययः स्यात् / याव. एव यावकः / मणिरेव मणिकः। अविरेव अविकः। यावादिराकतिगणः / तेनाभिन्नतरकम् बहुतरकमित्यादि सिद्धम् / . 2250 कुमारीक्रीडनेयसोः // 73 / 16 // कुमारीणां यानि क्रीडनानि तद्वाचिभ्य ईयसुप्रत्ययान्तेभ्यश्च स्वार्थे कः प्रत्ययः स्यात् / कन्दुरेव कन्दुकः। उत्कण्टकः। गिरिकः। समुद्कः। दोलिका / भ्रमरकः। शृङ्गकम् / ईयसु-श्रेयानेव श्रेयस्कः / ज्यायस्कः। भूयस्कः / 2251 लोहितान् मणौ // 7 / 3 / 16 // लोहितशब्दान्मणौ वर्तमानात् स्वार्थे कः प्रत्ययो वा स्यात् / लोहित एव लोहितको मणिः / लिङ्गविशिष्टस्यापि ग्रहणाल्लोहिन्येव लोहिनिका मणिः / लोहितैव लोहितिका मणिः। मणेविशेषणमेतदित्येके / नामधेयमित्यन्ये / वाधिकारान्न भवत्यपि / लोहितो मणिः मणाविति किम् / लोहिता गौः। ___2252 रक्तानित्यवर्णयोः // 7 // 3 // 18 // रक्ते द्रव्यान्तरेण लाक्षादिना वर्णान्तरमापादितेऽनित्ये च वर्णे वर्तमानाल्लोहितशब्दात् कः प्रत्ययो वा स्यात् / रक्ते-लोहित एव लोहितकः पटः। लिङ्गविशिष्टस्यापि ग्रहणात् लोहिनिका लोहितिका शाटी। अनित्यवर्णे-लोहितकमक्ष्णो रूपं कोपेन। लोहतकमक्षि कोपेन। लोहिनिका लोहितिका कन्या कोपेन / वाधिकारान्न भवत्यपि / लोहिता लोहिनी
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy