SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 456 सिद्धहैमबृहत्मक्रिया. [तद्धित रिक्तो धनमज्ञादिना, शून्य एव शून्यकः रिक्तश्चेत् / रिक्त इति किम् / शुने हितं शून्यम् / अन्ये तु सूत्रादयोऽर्थाः प्रत्ययमन्तरेण न प्रतीयन्ते इति तद्विषये तन्वादिभ्यो नित्य एव प्रत्ययविधिरिति मन्यन्ते / एवं पूर्वसूत्रेऽपि / __ 2258 भागेऽष्टमानः // 7 / 3 / 24 // अष्टमशब्दाद् भागेंऽशे वर्तमानात् स्वार्थे त्र, प्रत्ययो वा स्यात् / अष्टम एव अष्टमो भागः / भाग इति किम् / अष्टमो जिनः चन्द्रप्रमः। 2289 षष्ठात् // 7 // 3 // 26 // षष्ठशब्दाद्भागे वर्तमानात् स्वार्थे अः प्रत्ययो वा स्यात् / षष्ठ एव पाठो भागः / भाग इति किम् / षष्ठो जिनः पद्मप्रभः / योगविभाग उत्तरार्थः। 2260 माने कश्च // 7 // 3 / 26 // मीयते येन तन्मानम् / तस्मिन् माने भागे वर्तमानात् षष्ठशब्दात कश्चकाराञश्च प्रत्ययौ वा स्याताम् / षष्ठ एव षष्ठकः षाष्ठो भागः मानं चेत् / मान इति किम् / षष्ठ एव पाष्ठो भागोऽन्यः / . 2261 एकादाकिन् चासहाये // 73 // 27 // एकशब्दादसहायार्थवाचिन आकिन् स्यात् चात्कश्च / एक एव एकाकी, एककः / असहाय इति किम् / एके आचार्याः। एको द्वौ बहवः। . 2262 प्राग् नित्यात् कम् // 7 // 3 // 28 // नित्यशब्दसंकीर्तनात् पाग्येऽर्थास्तेषु द्योत्येषु कप् प्रत्ययोऽधिकृतो वेदितव्यः / कुत्सितोऽल्पोऽज्ञातो वा अश्वः अश्वकः / पकारः पुंवद्भावार्थः / कुत्सिता दरद् दारदिका / प्राग्नित्यादित्यवध्यर्थम् / अन्यथापवादबाधितो नोत्तरत्रानुवर्तेत / परतोऽपि चानुवर्तते / . . ' 2263 त्यादिसवादेः स्वरेष्वन्त्यात् पूर्वोऽक् // 73 // 29 // त्याद्यन्तस्य सर्वादीनां च स्वरेषु स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात् पूर्वोऽक् प्रत्ययः स्यात् / पानित्यात् कपोऽपवादः / कुत्सितमल्पमज्ञातं वा पचति पचतकि / सर्वके / विन्धके / सर्वकस्मै / यकपिता / तकत्पिता / त्वकपिता / मकत्पिता / परमस के / तदन्तस्यापि सावित्वस्तीति अत्राप्यक् / स्वरेष्वन्त्यादिति किम् / आद्यन्तात् सर्बादेव पूर्व मा भूत् / पूर्व इति किम् / परो मा भूत् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy