________________ 450 सिद्धहैमबृहत्मक्रिया. [तद्धित अभिरूपतराः। सुकुमारतराः। सांकाश्यकादिषु पाटलिपुत्रकादीनामप्रवेशात् विभागः। विभज्यस्य च विशेषणमप्याब्याद्यर्थः प्रकृष्टं विभज्यं भवति ततः प्रत्ययः। द्वयोविभज्ये चेति किम् / गवां कृष्णा संपन्नक्षीरतमा / सांकाश्यकानां पाटलिपुत्रकाणां च पाटलिपुत्रका आन्यतमा इत्यत्र राश्यपेक्षया द्वित्वेऽपि शब्देन बहुत्वोपादानात् तरप न भवति / विभज्यग्रहणमद्विखार्थम् / प्रकृष्ट इत्येव / अय. मनयोः पटुः। सांकाश्यकेभ्यः पाटलिपुत्रका आढ्याः। पकारः पुंवद्भावार्थः / शुक्लतरा शाटी। 2233 कचित् // 737 // स्वार्थेऽपि तरप् प्रत्ययः स्यात् / प्रकृष्टे सिद्ध एव / अभिन्नमेवाभिन्नतरकम् / उपपन्नमेवोपपन्नतरकम् / उच्चैरेवोच्चैस्तराम् / कचिद्ग्रहणं शिष्टप्रयोगानुसरणार्थम् / ___2234 किंत्यायेऽव्ययादसत्त्वे तयोरन्तस्याम् // 7 // 3 // 8 // किंशद्वात् त्याधन्तात् एकारान्तादव्ययेभ्यश्च परयोस्तमप्तरपोरन्तस्यामित्ययमादेशः स्यात् असत्त्वे-न् चेत् तौ सत्त्वे द्रव्ये इदं तदिति परामर्शयोग्ये प्रकृष्टे वर्तेते / इदमनयोरतिशयेन किं पचति किंतरां पचति इदमेषामतिशयेन किं पचति किंतमां पचति / त्यादि-द्वाविमौ पचतः अयमनयोरतिशयेन पचति पचतितराम् / सर्वे इमे पचन्ति अयमेषां प्रकृष्टं पचति पचतितमाम् / अस्मादेव वचनात् त्यायन्तादपि व्यर्थप्रकर्षे तरप बह्वर्थप्रकर्ष तमप् भवति / पूर्वालेतराम् पूर्वाह्नतमाम् भुङ्क्ते। अपराह्नेतराम् / अपरालेतमाम् / मालेतराम् / पाढेतमाम् / प्रगेतराम् / प्रगतमाम् / अग्रेतराम् / अग्रेतमाम्। एग्रहणसामर्थ्यात् काले सत्वेऽप्याम् भवति नान्यस्मिन्नेदन्ताभावात् / अग्रेशरोऽपि कालवाची / अथवा विभक्त्यर्थो न द्रव्यम् / तत्पकर्षेऽत्र तरप्तमपौ। शोभनो हेशब्दो यस्य सुहेतर इत्यत्रानभिधानान भवति। क्रियाशब्देभ्यश्च-जयतीति विचि जे जेतर इत्यादि / अव्यय-नितराम् / नितमाम् / अतितराम् / अतितमाम् / अतीवतराम् / नतराम् / उच्चस्तराम् / उच्चैस्तमाम् / किंत्याद्येऽव्ययादिति किम् / शीघ्रतरं गच्छति / असत्र इति किम् / किंतरं दारु / उच्चस्तरः उच्चैस्तमो वृक्षः / उत्तरः। उत्तमः। ___2235 गुणाङ्गादेष्ठेयसू // 7 // 3 // 9 // तयोरिति सप्तम्या विपरिणम्यते / गुणोऽङ्ग प्रवृत्तिनिमित्तं यस्य स गुणाङ्गः। यः शब्दो गुणमभिधाय द्रव्ये वर्तते /