________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 449 पेक्षया प्रकर्षे भविष्यन्ति / प्रकृष्ट इति किम् / महत्सर्षपं महान् हिमवानिति / शुक्लापेक्षया च कृष्णे मा भूद् / अदूरविप्रकर्षे समानगुणक्रिययोश्च स्पर्धा भवति / नहि निष्कधनः शतनिष्कधनेन स्पर्धते / आब्याभिरूपौ वा गन्तृपाचको वा / तथा च तन्निमित्तः प्रकर्षोऽपि नास्ति। कथं तर्हि शुक्लकृष्णयोः कृष्णो भास्वरतर इति ? भास्वरत्वमेकजातीयम् तदपेक्षो भविष्यति / कथमन्धानां काणतमः ? अन्धशब्दस्य काणपर्यायवात् काणशद्वस्य चान्धपर्यायवाददोषः। कथमहिंसकः श्रेयान् पापीयान् प्राणिनां हन्तेत्यत्र तरबर्थे ईयस् ? नैतयोः परस्परं स्पर्धा किं तर्हि अन्यापेक्षा / पकारः पुंवद्भावार्थः / शुक्लतमा शाटी। 2231 वान्तमान्तितमान्तितोऽन्तियान्तिषद् // 7 / 4 / 31 // अन्तमादयः शब्दास्तमबादिप्रत्ययान्ताः कृततिकादिलोपादयो वा निपात्यन्ते / अयमेषामतिशयेनान्तिकः अन्तमः पक्षे अन्तिकतमः / अत्रान्तिकशब्दस्य तमप्पत्यये तिकशब्दलोपो' नोऽप्रशानोऽनुस्खारानुनासिकौ च पूर्वस्याधुटपरे ' इति सकाराभावश्च निपात्यते / अयमेषामतिशयेनान्तिकः अस्तित्तमः / अत्र कशदस्य लोपः। पक्षे अन्तिकतमः / अन्तिकादागच्छति / अन्तित आगच्छति / अत्रापादानलक्षणे तसौ कशब्दस्य लोपः। पक्षेऽन्तिकत आगच्छति / अन्तिके साधुः अन्तियः। अत्र यमत्यये कशदस्य लोपः इकारस्य च लोपाभावः। पक्षे अन्तिक्यः / अन्तिके सीदति अन्तिषद् / अत्र सदिति किवन्ते कलोपः सस्य षत्वं च। पक्षे अन्तिकसत् / 2232 द्वयोविभज्ये च सरप् // 7 // 3 // 6 // द्वयोस्तद्गुणयोरर्थयोर्मध्ये यः प्रकृष्टस्तस्मिन् विभज्ये च विभक्तव्ये च प्रकृष्टेऽर्थे वर्तमानानाम्नस्तरप् प्रत्ययः स्यात् / तमपोऽपवादः / द्वाविमौ पटू अयमनयोः प्रकृष्टः पटुः पटुतरः। एवं सुकु. मारतरः / पाचकतरः। गोतरो यः शकटं वहति सीरं च / गोतरा या समांसमां विजायते स्त्रीवत्सा च। दन्ताश्च ओष्ठौ च दन्तौष्ठम् / दन्तोष्ठस्य दन्ताः स्निग्धतराः। अत्र यद्यपि विग्रहे बहुवसंख्या प्रतीयते तथापि समाहारेऽवयवौ स्वार्थमात्रं दन्तखादिलक्षणम् अभेदैकवसंख्यायोग्युपाददाते न संख्याभेदमिति द्वयोरेव प्रकर्षः / यदा पुनरितरेतरयोगस्तदा बढर्थप्रकर्ष इति तमवेव भवति / अस्माकं च देवदत्तस्य देवदत्तोऽभिमुख्यतरः। अत्रास्माकमित्येकस्यैव * अविशेषणे द्वौ चास्मदः' इति बहुवद्भावः / परुद्भावाद् पटुरासीत् पटुतर ऐषमः / अत्रैकस्यापि पर्यायार्थार्पणया द्विखमिति द्वयोरेव प्रकर्षः विभज्ये-सांकाश्यकेभ्यः पाटलिपुत्रका आयवसः।