________________ 448 सिद्धहैमबृहत्प्रक्रिया. [तद्धित 'धेनोरनञः'। अपूपाः प्रकृताः अस्मिन् आपूपिकम् अपूपमयं पर्व। मौदकिकी मोदकमयी पूजा / गणिकाः प्रकृता यस्यां यात्रायां गाणिक्या गणिकामयी यात्रा / 'गणिकाया ण्यः / अश्वीया अश्वमयी मात्रा / 'वावादीयः।' 2229 निन्द्ये पाशप् // 73 / 4 // निन्द्येऽर्थे वर्तमानान्नाम्नः स्वार्थे पाशप प्रत्ययः स्यात् / निन्यो वैयाकरणः वैयाकरणपाशः / छान्दसपाशः / निन्ध इति किम् / साधुर्वैयाकरणः / प्रत्यासत्तेः शब्दप्रवृत्तिनिमित्तकुत्सायामयमिष्यते / तेनेह न भवति / वैयाकरणश्चौरः / न ह्यत्र चौर्येण वैयाकरणत्वं कुत्स्यते किं तर्हि शीलमिति / पकारः पुंवद्भावार्थः / कुत्सिता कुमारी कुमारपाशा / किशोरपाशा / अथेह वयोवचनखात् पुनर्जीः कस्मान्न भवति ? कुमारादयो वयोवचना न कुमारपाशादयः। निन्दावचना हि ते इति न भवति / 2230 प्रकृष्टे तमप् // 7 // 35 // प्रकृष्टे प्रकर्षवत्यर्थे वर्तमानान्नाम्नस्तमप् प्रत्ययः स्यात / प्रकर्षोऽतिशयः। स च गुणक्रिययोरेव न जातिद्रव्ययोः। सर्वे इमे शुक्लाः अयमेषां प्रकृष्टः शुक्लः शुक्लतमः शुक्लतमौ शुक्लतमाः / एवमान्यतमः / सुकुमारतमः। कारकतमः / साधकतमः / प्रकृष्टतमः। जातिद्रव्यवचनेभ्योऽपि गुणक्रियाप्रकर्षविवक्षायां भवति / गौरयं सुसनहनः शकटं वहति / गोतमोऽयं यः सुलक्षणः शकटं सीरं च वहति / गोतमेयं या समांसमां विजायते स्त्रीवत्सा च / १द्रव्यान्तरसमवायिना च प्रकृष्टेन गुणेन कृखा प्रकृष्टे द्रव्ये २तद्वतः प्रत्ययो भवति। अतिशयेन सूक्ष्माणि वस्त्राण्यस्य सूक्ष्मवस्त्रतमः। प्रकर्षप्रत्ययान्ताच प्रकर्षस्यापि प्रकर्षविवक्षायां प्रत्ययो भवति / यथा-युधिष्ठिरः श्रेष्ठतमः कुरूणाम् / तरबन्तात् तु तरप् न भवति अनभिधानात् / तथा यथा पूर्वपदातिशये पूर्वपदाद् बहुव्रीहेर्वा आतिशायिकः प्रत्ययो भवति सूक्ष्मतमवस्त्रः सूक्ष्मवत्रतमो वा न तथोत्तरपदातिशये बहुव्रीहेः बहाठ्यकतम इति कि तूत्तरपदादेव / बहव आढयतमा यत्र बहाव्यतमकः। केचित्तु पूर्वपदातिशये बहुव्रीहेरेवातिशायिकमिच्छन्ति / द्वयोः प्रकर्षे तरपो विधानात् बहूनां प्रकर्षेऽयं विधिः / कथं हि प्रधानमयं ग्रामः प्रधातमोऽयं ग्रामे, आढ्यं नगरम् आढ्यतमोऽयं नगरे ? एकस्मिन्नपि निर्दिष्टे समुदाये तदन्तर्गतावयवान्तरा 1 देवदत्तरूपाद् द्रव्यादन्यद् द्रव्यं वस्त्रादि तत्र समवायी यो गुणः सूक्ष्मत्वादिः तेन / 2 प्रकृष्टगुणवद्रव्यवतश्चैत्रादेः। परमार्थवृत्याऽस्यैव प्रकर्ष इत्यर्थः।