SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ सफरणम् ] सिद्धहैमवृहत्पक्रिया. इकण प्रत्ययः स्यात् / अन्येनान्योऽन्यस्मै यामाह सा सन्दिष्टा वाक् / वागेव वाचिकं कथयति / सन्दिष्टों वाचं कथयतीत्यर्थः। सन्दिष्ट इत्येव / चित्रा वाक् चैत्रस्य / अत्रापि पूर्ववन्नित्यो विधिः / / 2222 विनयादिभ्यः // 7 / 2 / 169 // विनयादिभ्यः स्वार्थ इकण प्रत्ययो मा स्यात् / विनय एव वैनयिकम् / समय एव सामयिकम्। विनयादिराकृतिगणः। 2223 उपायास्वश्च // 7 / 2 / 170 // उपायशब्दात् स्वार्थे इकण् प्रत्ययो वा स्यात् तत्संनियोगे च इस्वः / उपाय एव औपयिकम् / 2224 मृदस्तिकः // 7 / 2 / 171 // मृच्छब्दात् स्वार्थे तिक; प्रत्ययो वा स्यात् / मृदेव मृत्तिका। 2225 सस्नौ प्रशस्ते // 7 // 2 // 172 // मृद् इत्येतस्मात् प्रशस्तेऽर्थे वर्तमा'नात् स स्त्र इत्येतौ प्रत्ययौ वा स्याताम् / रूपप्रत्ययापवादः / प्रशस्ता मृत् मृत्सा मृत्स्ना / केचित्तु रूपमपीच्छन्ति प्रशस्ता मृत् मृद्रूपा / 2226 प्रकृते मयट् // 73 // 1 // प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम् / प्रकृतेऽर्थे वर्तमानानाम्नः स्वार्थे मयट् प्रत्ययः स्यात् / अन्नं प्रकृतम् अन्नमयम् / 'घृतमयम् / दधिमयम् / टकारो डन्यर्थः / यवाग्मयी / अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतिलिङ्गवचनानीति यवागू: प्रकृता यवागूमयम् / एवमुत्तरत्रापि / अपूपाः प्रकृताः आपूपिकम् / अपूपमयम् / शष्कुल्यः प्रकृताः शाकुलिकम् / शष्कुलीमयम् / प्रकृत इति किम् / अन्नम् घृतम् / 2227 अस्मिन् / / 7 / 3 / 2 // प्रकृतेऽर्थे वर्तमानान्नाम्नोऽस्मिन्निति सप्तम्यर्थे मयट् प्रत्ययः स्यात् / अन्नं प्रकृतमस्मिन्नन्नमयं भोजनम् / अपूपमयं पर्व / वटक'मयी यात्रा / यवागूमयी इष्टिः। 2228 तयोः समूहवच्च बहुषु // 7 // 3 // 3 // तयोः 'प्रकृते / " अस्मिन् / इत्येतयोंविषययोर्बहुषु वर्तमानान्नानः समूहवत् प्रत्ययः स्यात् चकारान्मयट् च / अपूपाः प्रकृता अस्मिन् आपूपिकम् / अपूपमयम् / मौदकिकस् / मोदकमयम् / शाकुलिकम् / शष्कुलीमयम् / कवचिहस्त्यचित्ताच्चेकण् / धैनुकम् / धैनुमयम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy