________________ [तद्धित सिद्धहैमबृहत्प्रक्रिया. 2216 होत्राया ईयः // 7 / 2 / 163 // होत्राशब्दात् स्वार्थे ईयः प्रत्ययो का स्यात् / होत्रैव होत्रीयम् : ___ 2217 भेषजादिभ्यष्टयण // 7 / 2 / 164 // भेषज इत्येवमादिभ्यः स्वार्थे ट्यण प्रत्ययः स्याद्वा / भेषजमेव भैषज्यम् / अनन्त एव आनन्त्यम् / आवसथ एव आवसथ्यम् / इतिह एव ऐतिह्यम् / इतिहेति निपातसमुदाय उपदेशपारंपर्ये वर्तते / चत्वार एव वर्णाश्चातुर्वर्ण्यम् / चातुराश्रम्यम् / चखारो वेदाश्चतस्रो विद्या वा चातुर्वैद्यम् / एवं विद्यम् / अनुशतिकादिखादुभयपदद्धिः / त्रैलोक्यम् / ऐकभाव्यम् / द्वैभाव्यम् / त्रैभाव्यम् / आन्यभाव्यम् / सार्ववैद्यम् / सार्वलोक्यम् / षाड्गुण्यम्। शीलमेव शैलीयम् आचार्यस्य / भैषज्यानन्त्यावसथ्यैतिह्यशद्धा यदि स्त्रियां स्युस्तदा अजादिषु द्रष्टव्याः। भेषजादयः शिष्टमयोगगम्याः। 2218 प्रज्ञादिभ्योऽण // 7 / 2 / 165 / / प्रज्ञादिभ्यः स्वार्थे अण स्याद्वा / प्रजानातीति प्रज्ञः, प्रज्ञ एव प्राज्ञः। प्राज्ञी कन्या / प्रज्ञा अस्या अस्तीति णे प्राज्ञा कन्या / वणिगेव वाणिजः। प्रज्ञादिराकृतिगणः / तेन आग्नीधी आग्नीध्रा वा शाला साधारणी साधारणा वा भूमिरित्यादि सिद्धम् / 2219 श्रोत्रौषधिकृष्णाच्छरीरभेषजमृगे / / 7 / 2 / 166 // श्रोत्र ओषधि कृष्ण इत्येतेभ्यो यथासंख्यं शरीरे भेषजे मृगे च वर्तमानेभ्यः स्वार्थेऽण प्रत्ययो वा स्यात् / श्रोत्राच्छरीरे-श्रोत्रमेव श्रौत्रं शरीरम् / श्रोत्रमेवान्यत् / ओषधेर्भेषजे ओषधिरेव औषधं भेषजम् / ओषधिरेवान्यत् / कृष्णान्मृगे-कृष्ण एव काष्र्णो मृगः / कृष्ण एवान्यः। __2220 कर्मणः सन्दिष्टे // 7 / 2 / 167 // सन्दिष्टेऽर्थे वर्तमानात् कर्मणः स्वार्थेऽण् प्रत्ययः स्यात् / अन्येनान्योन्यस्मै यदाह वयेदं कर्तव्यमिति तत्सन्दिष्टं कर्म / कर्मैव कार्मणं करोति / सन्दिष्टं कर्म करोतीत्यर्थः / वशीकरणमपि वृद्धपरंपरोपदेशात् क्रियते इति कार्मणमुच्यते / सन्दिष्ट इति किम् / सत्यपि महावाधिकारे विशिष्टोऽर्थः प्रत्ययमन्तरेण न प्रतीयत इति अस्मिन् विषये नित्य एव प्रत्ययः। 2221 वाच इकण् / / 7 / 2 / 168 // सन्दिष्टेऽर्थे वर्तमानात् वाचशब्दात्स्वार्थे