________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. तस्मात्तयोस्तमप्ततरपोर्विषये यथासंख्यमिष्ठ ईयसु इत्येतौ प्रत्ययौ वा स्याताम् / पक्षे यथाप्राप्तं तमप्तरपौ च / तमबर्थे इष्ठः / अयमेषामतिशयेन पटुः पटिष्ठः पटुतमः। पटिष्ठौ पटुतमौ / पटिष्ठाः / पटुतमाः / एवं लघिष्ठः / लघुतमः / गरिष्ठः / गुरुतमः। म्रदिष्ठः। मृदुतमः। तरबर्थे ईयसुः / अयमनयोरतिशयेन पटुः पटीयान् तटुतरः। गरीयान् / गुरुतरः। लघीयान् / लघुतरः। म्रदीयान् / मृदुतरः। परुद्भवान् पटुरासीत् पटीयानैषमः / पटुतरः। माथुरेभ्यः पाटलिपुत्रकाः पटीयांसः पटुतराः। गुणग्रहणं किम् / गोतरः / गोतमः। पाचकतरः। पाचकतमः। दन्तोष्ठस्य दन्ताः स्निग्धतराः। परुद्भवान् विद्वानासीत् ऐषमो विद्वत्तर इति / अत्र जातिक्रियानवान्न भवति / अङ्गग्रहणं किम् / शुक्लतरं शुक्लतमं रूपम् / अत्र हि गुण एव वृत्तिन तदुपसर्जने द्रव्ये इति न भवति / ईयसोरुकार उदित्कार्यार्थः। पटीयसी। 2236 विन्मतोणीष्ठेयसौ लुप् / 7 / 4 / 32 // विन्मतु इत्येतयोः प्रत्यययोणि इष्ठ इयसु इत्येतेषु प्रत्ययेषु परेषु लुप् स्यात् / 2137 नैकस्वरस्थ // 7 // 4 // 44 // एकस्वरस्य शब्दरूपस्य योऽन्त्यस्वरादिरवयवस्तस्येमनि णीष्ठेयसुषु च परेषु लुग्न स्यात् / अयमेषां स्रग्विणामतिशयेन स्रग्वी स्रजिष्ठः / अयमनयोः स्रग्विणोरतिशयेन स्रग्वी सजीयान् / - 2238 अल्पयूनोः कन्वा // 7 // 4 // 33 // अल्प युवन् इत्येतयोणि इष्ठ ईयसु इत्येतेषु परेषु कन् इत्ययमादेशो वा स्यात् / कनिष्ठः / कनीयान् / पक्षे अल्पिष्ठः / अल्पीयान् / यविष्ठः। यवीयान् / 2239 प्रशस्यस्य श्रः // 7 // 4 // 34 // प्रशस्यशब्दस्य णीष्ठेयसुषु परतः श्र इत्ययमादेशः स्यात् / श्रेष्ठः / श्रेयान् / 2240 वृद्धस्य च ज्यः // 7 // 4 // 35 // वृद्धशब्दस्य प्रशस्यशब्दस्य च णीष्ठेयसुषु परतो ज्य इत्यादेशः स्यात् / ज्येष्ठः। / 2241 ज्यायान् // 7 // 4 // 36 // ज्यायानिति पूर्वसूत्रेण विहिताज्ज्यादेशात् परस्येयसोरीकारस्य आकारादेशो निपात्यते / अयमनयोरतिशयेन प्रशस्यो वृद्धो वा ज्यायान् / ज्यायसी।