________________ प्रकरणम् ] . सिद्धहैमबृहत्पक्रिया. // अथ स्वरान्तपुल्लिङ्गप्रकरणम् // 176 अधातुविभक्तिवाक्यमर्थवन्नाम // 1 / 1 / 27 // अर्थोऽभिधेयः स्वार्थी द्रव्यं लिङ्ग संख्या शक्तिरिति, द्योत्यश्च समुच्चयादिः / तद्वच्छब्दरूपं धातुविभक्त्यन्तवाक्यवर्जितं नामसंज्ञं स्यात् / विभक्त्यन्तवर्जनाचाबादिप्रत्ययान्तानां नामसंज्ञा भवत्येव / अर्थवत्समुदायस्य वाक्यस्य नामसंज्ञाप्रतिषेधात् समासादेरपि भवत्येव / यदानुकार्यानुकरणयोः स्याद्वादाश्रयणेनाभेदविवक्षा तदार्थवत्त्वाभावान * भवति नामसंज्ञा, यथा गवित्ययमाहेति / यदा तु भेदविवक्षा तदानुकार्थेणार्थेनार्थवत्त्वाद् भवत्येव, पचतिमाह। 177 अनन्तः पञ्चम्याः प्रत्ययः // 11 // 38 // पञ्चम्यर्थाद् विधीयमानः शब्दः प्रत्ययसंज्ञः स्यात् , अनन्तः-न चेदन्तशब्दोच्चारणेन विहितः स्यात् / 178 परः // 7 // 4 / 118 // यः प्रत्ययः स प्रकृतेः पर एव स्यात् / 179 स्यौजसमौशस्टाभ्यांभिस्ङे भ्यांभ्यस्ङसिभ्यांभ्यस्ङसोसांङयोस्सुपां त्रयी त्रयी प्रथमादिः // 1 / 1 / 17 // स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमाद्वितीयातृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमीसंज्ञा स्यात् / इजशटडपा अनुबंधाः ' सौ नवेतौ ' इत्यादौ विशेषणार्थाः / बहुवचनं स्याद्यादेशानामपि प्रथमादिसंज्ञापतिपत्त्यर्थम् / *स्यादिप्रत्ययानामियं त्रयी नाम्नः परा योज्यते / __ 180 स्त्यादिर्विभक्तिः // 7 / 4 / 119 // स् इति उत्सृष्टानुबंधस्य सेर्ग्रहणम् / ति इति उत्सृष्टानुबंधस्य तिवः। आदिशब्दो व्यवस्थावाची। स्यादयस्तिवादयश्च प्रत्ययाः सुप्स्यामहिपर्यन्ता विभक्तिसंज्ञाः स्युः। ततश्चात्राप्यर्थैकत्वविवक्षायां प्रथमैकवचनं सिः। देवस् इति स्थिते। 'सोरु', 'रः पदान्ते विसर्गस्तयोः-' देवः। द्वित्वे 181 स्यादावसंख्येयः // 3 / 1 / 119 // सर्वस्मिन् स्यादौ विभक्तौ समानानां तुल्यरूपाणां सहोक्तौ गम्यमानायामेकः शिष्यते, असंख्येयः-संख्येयवाचिशब्दरूपं वर्जयित्वा / देव औ इति जाते / ऐदौत्संध्यक्षरैरिति-देवौ / बहुत्वे-देव जस् / तत्र 182 अत आः स्यादौ जस्भ्यां ये // 1 / 4 / 1 // स्यादौजसि भ्यामि य कारे परेऽतोऽकारस्याकारः स्यात / देवा अस / ततः समानानां तेनेति दीर्घ देवाः। नन्वत्र दीर्घस्यापि दीर्घत्वं कथमिति चेत् ' पर्जन्यवल्लक्षणप्रवृत्तिः' इति न्यायात् / अथवा