________________ सिद्धहैमबृहत्मक्रिया. [ स्यादिसन्धि विसर्माभावो निपात्यते / हे प्रचेता राजन् , हे प्रचेतो राजन् / अत्र पक्षे उत्वाभावो निपात्यते / बहुवचनमाकृतिगणार्थम् / 172 रो रे लुग्दीर्घश्चादिदुतः // 1 // 3 // 41 // रेफस्य रेफे परे लुक् स्यात् , अकारेकारोकाराणां चानन्तराणां दीर्घः स्यात् / पुना रमने / अग्नीरथेन / पटूराजा / अन्वित्येव / अहोरूपम् / अत्र पूर्वमेव रोरुत्वे रेफाभावाल् लुग्दीर्घाभावः सिद्धः। ..... 173 ढस्तड्ढे // 1 // 3 // 42 // तन्निमित्तो ढस्तड्ढः / ढकारस्य तड्ढे परेऽनु लुक् स्यात् , अकारेकारोकाराणां च दीर्घः स्यात् / माढिः / लीढम् / तड्ढ इति किम् / मधुलिड् ढोकते / नायं लुप्यमानढकारनिमित्तो ढः / एवं चड्ढ़े, लुलुविड्थे इत्यादावपि ढकारस्य द्वित्वे सति ढकारयोनिमित्तनिमित्तिभावो नास्तीति लुग्न स्यात् / अदिदत इत्येव / आतृढम् / आवृढम् / अन्वित्येव / लेढा / मोढा / अत्र गुणे कृते पश्चात् ढलोपः। अन्यथा हि पूर्वमेव ढलोपे दीर्घ च लीढा मूढेत्यनिष्टं रूपं स्यात् / 174 तदः सेः स्वरे पादार्था // 1 // 3 // 45 // तदः परस्य सेः खरे परे लुक् स्यात् , सा चेत् पादार्था-पादपूरणी भवति / 'सैष दाशरथी रामः सैष राजा युधिष्ठिरः॥ सौषधीरनुरुध्यति / पादार्थेति किम् / स एष भरतो राजा। __ 175 एतदश्च व्यंजनेऽनग्नसमासे // 1 // 3 // 46 // एतदस्तदश्च परस्य सेव्यंजने परे लुक् स्यात्, अकि नसमासे च सति न स्यात् / एष ददाति / स ददाति / एतदश्चेति किम् / को दाता / सेरित्येव / एतौ गच्छतः / तौ तिष्ठतः / अनुबंधग्रहणादिह न भवति / एतेषु चरति / तेषु चरति / अननसमास इति किम् / एषकः करोति / सको याति / 'तन्मध्यपतितस्तद्हणेन गृह्यते' इति साकोऽपि प्राप्तिरिति प्रतिषेधः / अनेषो गच्छति / असो याति / व्यंजन इति किम् / एषोऽत्र / सोऽत्र / - इति श्रीसिद्धहैमबृहत्मक्रियायां स्यादिसंधिप्रकरणं समाप्तम् / /