________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. 31 हसति / घोषवतीत्येव / वृक्षव् करोति / अवर्णादित्येव / तरुव् गच्छति / पदान्त इत्येव / भव्यम् / कश्चितु स्वरजयोरनादिस्थयोर्यकारवकारयोर्घोषवत्यवर्णादन्यतोऽपि लोपमिच्छति / अध्यारूढ उम्-ईशम् अध्युः / स चासाविन्दुश्च अध्विन्दुः / साधोरीः-श्रीः साध्वी / तस्या उदयः साध्युदयः इत्यादि। 167 अस्पष्टाववर्णात्वनुनि वा // 1 / 3 / 26 / / अवर्णभोभगोऽघोभ्यः परयोः पदान्ते वर्तमानयोर्वकारयकारयोः स्थानेऽस्पष्टावीपत्स्पृष्टतरौ प्रत्यासत्तेर्वकारयकारावादेशौ स्वरे परे भवतः, अवर्णात्तु परयोोरुञ्वर्जिते स्वरे परेऽस्पष्टौ वा भवतः पटवु / कयु / भोयत्र / भगोयत्र / अघोयत्र / अवर्णात्त्वनुञि वा / पटविह / पटविह / अनुनीति किम् / उनि अस्पष्टावेव यथा स्याताम् / तथा चोदाहृतम् / केचित्तु रुस्थानस्य यकारस्योबिपरे लोपमिच्छन्ति / क उ आगतः। भो उ एहि / भगो उ एहि / अघो उ याहि / अपरे तु भोभगोऽयोभ्यः स्वरे परे नित्यं लोपमेवेच्छन्ति / भो अत्र / भगो अत्र / 168 रोर्यः॥१॥३॥२६॥ अवर्णभोभगोऽयोभ्यः परस्य पदान्ते वर्तमानस्य रोः स्थाने स्वरे परे यकार आदेशः स्यात् / कयास्ते / देवायासते / भोयत्र / भगोयत्र। अघोयत्र / स्वरे वेति पक्षे लोपोऽपि / क आस्ते, इत्यादि / रोरिति किम् / पुनरिह / अवर्णादिभ्य इत्येव / मुनिरत्र / स्वर इत्येव / कः करोति / 169 अहः // 2 / 1 / 74 // अहन्शब्दस्य पदान्ते रुरित्ययमादेशः स्यात् स चासन् , परे स्यादिविधौ च / दीर्घाण्यहान्यस्मिन् हे दीर्घाहो निदाघ / दीर्घाहा निदाघः। अत्र रुत्वस्यासत्त्वान्नान्तलक्षणो दीर्घो भवति / कश्चित्तु दीर्घत्वं नेच्छति / तन्मते दीर्घाहो निदाघः / अहोभ्याम् / अहस्सु / अहन् शत्रुमित्यत्राहन्शब्दस्य लाक्षणिकत्वान्न भवति / 170 रो लुप्यरि // 2 / 1175 // अहन्शब्दस्य लुपि सत्यामरेफे परे पदान्ते रोऽन्तादेशः स्यात् / रोरपवादः / अहरधीते / लुपीति किम् / हे दीर्घाहोऽत्र / अरीति किम् / अहोरूपम् / अहोरात्रः / गतमहो रात्रिरागता / कृत्स्नमहो रथन्तरं गायति / अन्ये तु रात्रिरूपरथन्तरेष्वेव रेफादिषु परेषु रेफप्रतिषेधमिच्छन्ति / 171 वाहर्पत्यादयः // 13 // 28 // अहर्पत्यादयः शब्दा यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा निपात्यन्ते / अहर्पतिः। अहः पतिः। अह 8 पतिः / गीर्पतिः / गीः पतिः / गी 8 पतिः / धूर्पतिः / धूःपतिः। धू 8 पतिः / एषु पक्षे