________________ सिद्धहैमबृहत्मक्रिया. [ स्यादिसन्धि करोतीत्यत्र 'वेसुसोऽपेक्षायाम्' इत्यनेनाधिकस्यापि विकल्पो भवति / बहुसर्पिएकुण्डम् , बहुसर्पिष्पात्रमित्यत्र तु बहुप्रत्ययादेरपि असमस्तत्वादनेन नित्यं भवति / 162 भ्रातुष्पुत्रकस्कादयः // 2 // 3 // 14 // भ्रातुष्पुत्रादयः कस्कादयश्च कखपफेषु परेषु रेफस्य स्थाने यथासंख्यं कृतषत्वसत्वाः साधवः स्युः। भ्रातुष्पुत्रः। 'ऋतां विद्यायोनिसंबंधे' (3-2-17) इति षष्ठ्या अलुप् / कस्कः / वीप्सायां द्विर्वचनम् / सर्वत्र नामिनः परस्य रेफस्य षत्वमन्यत्र सत्वं द्रष्टव्यम् / इति श्रीसिद्धहैमबृहत्पक्रियायां रेफसंधिप्रकरणम् समाप्तम् // // अथ स्यादिसंधिप्रकरणम् // कस् अत्र इत्यत्र ‘सो रुः' इत्यनेन रुत्वे कृते 163 अतोऽति रोरुः // 1 / 3 / 20 // अतोऽकारात् परस्य पदान्ते वर्तमानस्य रोः स्थानेऽति-अकारे परे उकारादेशः स्यात् / अवर्णस्येति ओत्वे एदोत इत्यकारलोपे च / कोऽत्र / अत इति किम्। अग्निरत्र / देवा अत्र / अतीति किम् / क इह / सर्वज्ञ आस्ते / रोरिति किम् / पुनरत्र / / 164 घोषवति // 1 // 3 // 21 // अतः परस्य पदान्ते वर्तमानस्य रोःस्थाने घोषवति परे उकारः स्यात् / को गच्छति / घोषवतीति किम् / कः करोति / अत इत्येव / मुनिर्गच्छति / सुश्रोत 3 देहि / रोरित्येव / स्वर्याति ।उत्तरेण लुकि प्राप्तेऽपवादोऽयम् / 165 अवर्णभोभगोऽघोलुंगसंधिः॥१॥३॥२२॥ अवर्णाद् भोभगोऽधोभ्यश्च परस्य पदान्तस्थस्य रो?षवति परे लुक् स्यात् , स चासंधिः-संधेनिमित्तं न भवति / श्रमणा गच्छन्ति / अकारात्तु परस्य रोः पूर्वेणापवादत्वादुत्वमेव / भो गच्छसि। भगो हससि / अघो यासि / भो भगो अघो इत्येते आमंत्रणार्थाः सकारान्ता अव्ययाः / केचित्तु भवद् भगवद् अघवतां संबोधने सौ परे वशब्दस्योत्वे तकारस्य च रुत्वं कृत्वा एतानि रूपाणीच्छन्ति, तेषां द्विवचनबहुवचनयोः स्त्रियां च न सिद्धयति / घोषवतीत्येव / कुमाराः क्रीडन्ति / असंधिरित्युत्तरार्थम् / 166 व्योः // 1 // 3 // 23 // अवर्णात् परयोः पदान्ते वर्तमानयोर्वकारयकारयो?षवति परे लुक् स्यात्, स चासंधिः / वृक्षं वृश्चति कि / वृक्षवृश्चमाचष्टे इति णावन्त्यस्वरादिलोपे वृक्षवयतीति विचि सिद्धं वृक्षव् / वृक्ष गच्छति / एवं माला