________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. . 29 निष्कृतम् / दुष्कृतम् / बहिष्पीतम् / आविष्पीतम् / प्रादुष्कृतम् / चतुष्कण्टकम् / कथं नि३ष्कुल, दु३ष्पुरुष, नैष्कुल्यम् , दौष्कुल्यम् / एकदेशविकृतस्याऽनन्यत्वात् / 157 सुचो वा // 2 // 3 // 50 // सुजन्तानां संबंधिनो रेफस्य कखपफेषु परेषु पो वा स्यात् / द्विष्करोति / त्रिष्करोति / चतुष्पचति / पक्षे जिह्वामूलीयोपध्मानीयौ विसर्जनीयश्च भवति / द्वि 4 करोति / द्विः करोतीत्यादि / सुजन्तस्य चतुरः पूर्वेण नित्यषत्वे प्राप्ते 158 स्पर्धे / / 7 / 4 / 119 // द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रानेकत्र चोपनिपातः स्पर्धः, तत्र यः सूत्रपाठे परः स विधिर्भवति / इत्येवं परत्वादनेन विकल्पो न तु पूर्वेण नित्यो विधिः / कखपफीत्येव / द्विश्चरति / 159 वेसुसोऽपेक्षायाम् // 2 // 3 // 11 // इस् उस्प्रत्ययान्तस्य यो रेफस्तस्य कखपफेषु परेषु षो वा स्यात् अपेक्षायाम्-स्थानिनिमित्तपदे चेत् परस्परापेक्षे भवतः / सर्पिष्करोति / सर्पिः करोति / धनुष्करोति / धनुः करोति / इसुस इति किम् / पय 4 करोति / इसुसोः प्रत्यययोग्रहणादिह न भवति / मुनिः करोति / इसा साहचर्यादुस औणादिकस्य ग्रहणम् ; तेनेह न भवति / चक्रुः कुलानि / अपेक्षायामिति किम् / तिष्ठतु सर्पिः पिब त्वमुदकम् / एकार्थीभावे च न भवति। परमसर्पिःकुण्डम् / __ 160 नैकार्थेऽक्रिये // 2 // 3 // 12 // न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे समानाधिकरणे पदे यत्कखपर्फ तस्मिन् परे इसुस्प्रत्ययान्तस्य संबंधिनो रेफस्य षो न स्यात् / वेसुसोऽपेक्षायामित्यस्यायं प्रतिषेधो नान्यस्य, तद्विषय एवारंभात् / सर्पि 4 कालकम् / यजु 8 पीतकम् / एकार्थ इति किम् / सर्पिकुंभे / सर्पि - कुंभे / धनुष्पुरुषस्य / धनु ( पुरुषस्य / अक्रिय इति किम् / सर्पिष्क्रियते / सपिः क्रियते / __ 161 समासेऽसमस्तस्य // 2 // 3 // 12 // पूर्वेणासमस्तस्येसुस्पत्ययान्तस्य संबंधिनो रेफस्य कखपफे परे षः स्यात् , समासे-तौ चेनिमित्तनिमित्तिनावेकत्र समासे भवतः / सर्पिष्कुंभः। धनुष्कृत्य / समास इति किम् / तिष्ठतु सर्पिः पिब त्वमुदकम् / असमस्तस्येति किम् / परमसर्पिःकुण्डम् / पूर्वेणापि न भवति, समासे सत्यपेक्षाया अभावात् / इदमेवासमस्तस्येति वचनं ज्ञापकम् इसुसोः 'प्रत्ययः प्रकत्यादे' (7-4-115) इत्ययं नियमो न भवति / तेम परमसर्पिष्करोति, परमसर्पिः