________________ 28 . सिद्धहैमबृहत्मक्रिया. [ रेफसन्धि स्कंसः / पयस्कुंभः / अयस्कुशा / अयस्कर्णी / अयस्पात्रम् / नामग्रहणे लिङ्गविशिष्टस्याऽपि ग्रहणात् अयस्कुंभी, अयस्पात्री / शुनस्कर्ण इति तु कस्कादिः। अत इति किम् / गीः कारः / भास्कर इति तु कस्कादिः / कम्यादिष्विति किम् / अयःकीलः। अनव्ययस्येति किम् / स्वःकामः / समास इत्येव / यशः करोति / ऐक्य इत्येव / उपपयः कारः / अयः कुंभकपालम् / अत्र हि निमित्तनिमित्तिना नैकसमासस्थौ / यदा त्वेवं समासोऽयसः कुंभोऽयस्कुंभस्तस्य कपालं तदा भवत्येवायस्कुंभकपालम् इत्यादि / इह कृकम्योः केवलयोः समासो न भवतीति प्रत्ययान्तयोग्रहणम् / अथ किवन्ता धातुत्वं न जहतीति किवन्तयोरेव कस्मान्न भवति / 'गतिकारकस्य' (3. 2-84) इत्यादिसूत्रे किग्रहणात् / न ह्यन्यप्रत्ययान्तानां धातूत्तरपदानामग्रहणात् किग्रहणमर्थवद् भवति / कमिग्रहणात् कामयतेन भवति / पयः कामयते पयःकामा / 'शीलिकामिभक्ष्याचरी'ति कृदन्तसूत्रेण णप्रत्ययः / कमेस्त्वणि पयस्कामीति भवति / कथं पयस्कामा / कमनं कामः, पयसि कामोऽस्या इति बहुव्रीहिणा भविष्यति / कमिग्रहणेनैव कंसे लब्धे पृथक्कंसग्रहणं ज्ञापकमस्तीदमपि दर्शनमुणादयोऽव्युत्पन्नानि नामानीति / - 153 प्रत्यये // 2 // 3 // 6 // अनव्ययस्य यो रेफस्तस्य प्रत्ययविषयेषु कखपफेषु सः स्यात् / पाशकल्पकाः प्रयोजयन्ति, काम्ये विशेषविधानादन्यस्य चाभावात्। पयस्पाशम् / पयस्कल्पम् / पयस्कम् / अनव्ययस्येत्येव / स्वःपाशम् / प्रत्यय इति किम् / पाशो बंधः, कल्पो विधिः, कं शिरः। ( इत्येतैः समासे ) पयःपाशः / पयाकल्पः। (पयसि कम् ) पयाकम् / / 154 रोः काम्ये // 237 // अनव्ययसंबंधिनो रोरेव रेफस्य काम्यप्रत्यये परे सः स्यात् / पयस्काम्यति / रोरिति किम् / द्वाः काम्यति / प्रत्यय इत्येव / पुरुषैः काम्यम् / अनव्ययस्येत्येव / अधः काम्यति / पूर्वेणैव सिद्धे रोरेवेति नियमाथै वचनम् / 155 नामिनस्तयोः षः // 2 // 38 // तयोरिति ' प्रत्यये' इति सूत्रसंगृहीतानां पाशकल्पकानां 'रोः काम्ये' इति यथानिर्दिष्टस्य काम्यस्य च ग्रहणम् / तयोः परयो मिन उत्तरस्य रेफस्य षकार आदेशः स्यात् / सपिष्पाशम् / सर्पिष्कल्पम् / सर्पिष्कम् / सर्पिष्काम्यति / नामिन इति किम् / अयस्कल्पम् / तयोरिति किम् / मुनिः करोति / रोः काम्य इत्येव / गीः काम्यति।। - 156 निर्दुर्बहिराविष्प्रादुश्चतुराम् // 2 / 3 / 9 // निरादीनां संबंधिनो रेफस्य करखपफेषु परेषु षः स्यात् / वहुवचननिर्देशो निस्दुसोनिटुरोध परिग्रहार्थः।