________________ 438 सिद्धहैमबृहत्मक्रिया. तद्धित पागशुक्लः पटः इदानीं शुक्लो भवतीत्यर्थः। शुक्लीभवनम् / शुक्लीस्यात् पटः / प्रागशुक्लः पट इदानीं शुक्लः स्यादित्यर्थः। एवं कारकीकरोति चैत्रम् / कारकीभवति कारकीस्याच्चैत्रः। दण्डीकरोति चैत्रम् / दण्डीभवति दण्डीस्यात् चैत्रः / राजपुरुषीकरोति चैत्रम् / राजपुरुषीभवति राजपुरुषीस्याच्चैत्रः। संघीकरोति गाः / संघीभवन्ति संघीस्युर्गावः / घटीकरोति मृदम् / घटीभवति घटीस्यान्मृत् / पटीकरोति तन्तून् / पटीभवन्ति पटीस्युस्तन्तवः। भस्मीकरोति काष्ठम् / भस्मीभवति भस्मीस्यात् काष्ठम्। कृभ्वस्तिभ्यामिति किम् / अशुक्लं शुक्लं संपादयति / अशुक्लः शुक्लः संपद्यते / कर्मकर्तृभ्यामिति किम् / प्रागदेवकुले इदानी देवकुले करोति / प्रागदेवकुले इदानीं देवकुले भवति / कथं समीपीभवति दूरीभवति / अत्रापि उत्तरात् तत्स्थे द्रव्ये वर्तमानानां समीपादीनां कर्तृत्वम् / पागतत्तत्व इति किम् / शुक्लं करोति / शुक्लो भवति / शुक्लः स्यात् / प्राग्ग्रहणं किम् / अशुक्लं शुक्लं करोति / एककालमतत्तत्त्वे न भवति / भवति हि एको भावः कश्चिदेककालं शुक्लोऽशुक्लश्च देशभेदेन चित्रपटीवत् / अभद्रं भद्रं करोति भद्राकरोति शिरः, अनिष्कुलं निष्कुलं करोति निष्कुलाकरोति दाडिममित्यत्र परत्वात् डाजेव / ___2180 अर्मनश्चक्षुश्वेतोरहोरजसा लुक् च्वौ // 7 / 2 / 127 // एतेषां च्वौ परेऽन्तस्य लुक् स्यात् / 2181 दीर्घश्वियङ्यक्क्येष्ठ च // 4 / 3 / 108 // च्चौ यङि यकि क्येषु यकारादावाशिषि च परतोऽन्त्यस्वरस्य दीर्घःस्यात् / अनरुः अरुः करोति अरूकरोति / अरूभवति अरूस्यात् / महारूकरोति। महारूभवति। महारूस्यात् / मनीकरोति / मनीभवति। मनीस्यात् / उन्मनीकरोति / उन्मनीभवति / उन्मनीस्यात् / चर्करोति / चर्भवति / चक्षूस्यात् / उच्चक्षकरोति / उच्चस्भवति / उच्चक्षूस्यात् / चेतीकरोति / चेतीभवति / चेतीस्यात् / विचेतीकरोति / विचेतीभवति / विचेतीस्यात् / रहीकरोति / रहीभवति / रहीस्यात् / विरहीकरोति / विरहीभवति। विरहीस्यात् / रजीकरोति। रजीभवति / रजीस्यात् / विरजीकरोति / विरजीभवति / विरजीस्यात् / च्चाविति किम् / अरुः करोति। बहुवचनं तदन्तानामपि परिग्रहार्थम् / अन्यथा ग्रहणवता न तदन्तविधिरित्युपतिष्ठेत। - 2182 इसुसोर्बहुलम् // 7 / 2 / 128 // इस् उस् इत्येवमन्तस्य च्चौ परे