SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 437 दिशि देशे वा वर्तमानात् प्रथमासप्तम्यन्तात् दक्षिणशब्दादा आहि इत्येतौ प्रत्ययौ स्याताम् / ग्रामाद् दूरा दक्षिणा दिग्देशो वा रमणीयः ग्रामादक्षिणा दक्षिणाहि रमणीयम् / दक्षिणा दक्षिणाहि वसति / दूर इति किम् / दक्षिणतः दक्षिणात् दक्षिणा रमणीयम् / आहिर्न भवति / आकारस्तु पूर्वेण सामान्येन विधानाद् भवत्येव / यद्येवमिहाकारग्रहणं किमर्थम् / विशेषविहितेनाहिना बाधो मा भूदित्येवमर्थम् उत्तरार्थं च / प्रथमासप्तम्या इत्येव / दक्षिणत आगतः। 2176 वोत्तरात् // 7 / 2 / 121 / / उत्तरशब्दात् प्रथमासप्तम्यन्तात् आ आहि इत्येतौ प्रत्ययौ वा स्याताम् / योगविभागाद् दूर इति नानुवर्तते / उत्तरा उत्तराहि रमणीयम् / उत्तरा उत्तराहि वसति / पक्षे अतसातौ / उत्तरतः उत्तरात् / प्रथमासप्तम्या इत्येव / उत्तरतः उत्तरादागतः। 2177 अदूरे एनः // 12 // 122 // वोत्तरादिति नानुवर्तते / दिक्शब्दादिग्देशकालवृत्तेः प्रथमासप्तम्यन्तादवधेरदूरे वर्तमानादेनः प्रत्ययः स्यात् / अस्मात् पूर्वा अदूरा दिक् रमणीया देशः कालो वा पूर्वेणास्य रमणीयम् / पूर्वेणास्य वसति / अपरेणास्य रमणीयम् / अपरेणास्य वसति। एवं दक्षिणेन उत्तरेण अधरेण / अदूर इति किम् / पुरो रमणीयम् / प्रथमासप्तम्या इत्येव / पुर आगतः / दिग्देशकालमात्रे द्योत्ये ये सामान्यप्रत्यया उक्ता अदूरे अपि सामान्यविवक्षायां ते भवन्त्येव / प्रकरणादेश्चादरता गम्यत इति नार्थो वाग्रहणेन / अन्ये तु दक्षिणोत्तराधरशब्देभ्य एव एनप्रत्ययमिच्छन्ति / . 2178 कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे च्विः // 7 / 2 / 126 // भूश्च अस्तिश्च भवस्ति, का च भ्वस्ति च कृभ्वस्तिनी, ताभ्यां कृभ्वस्तिभ्याम् / द्विवचनं कर्मकर्तृभ्यामिति यथासंख्यार्थम् / करोतिकर्मणो भ्वस्तिकर्तुश्च प्राक् पूर्वमतस्य तत्त्वेऽभूततद्भावे गम्यमाने कृभ्वस्तिभ्यां च योगे च्चिः स्यात् / द्रव्यस्य गुणक्रियासंबंधसमूहविकारयोगे प्रागतत्तत्वमुदाहार्यम् / 2179 ईश्वाववर्णस्यानव्ययस्य॥४।३।१११॥ अव्ययवर्जितस्यावर्णान्तस्य च्वौ प्रत्यये ईकारोऽन्तादेशः स्यात् / शुक्लीकरोति पटम् / मागशुक्ल शुक्लं करोतीत्यर्थः। शुक्लीक्रियते पटः। प्रागशुक्लः शुक्लः क्रियत इत्यर्थः। शुक्लीकरणम् / शुक्लीभवति पटः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy