SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्पक्रिया. [तद्धित _____2170 परावरात् स्तात् // 7 / 2 / 116 // पर अवर इत्येताभ्यां दिग्देशकालेषु वर्तमानाभ्यां पथमापञ्चमीसप्तम्यन्ताभ्यां स्वार्थे स्तात् प्रत्ययः स्यात् / परा दिग्देशः कालो वा रमणीयः परस्ताद् रमणीयम् / परस्तादागतो वसति वा। एवमवरस्ताद्रमणीयमागतो वसति वा। 2171 दक्षिणोत्तराचातस् // 72 / 117 // दक्षिण उत्तर इत्येताभ्यां चकारात् परावराभ्यां च दिग्देशकालेषु वर्तमानाभ्यां प्रथमापश्चमीसप्तम्यन्ताभ्यां स्वार्थेऽतस् प्रत्यय: स्यात् / दक्षिणशब्दः काले न संभवतीति दिग्देशत्तिर्गृह्यते / दक्षिणा दिग्देशो वा रमणीयः दक्षिणतो रमणीयम् / दक्षिणत आगतो वसति वा / उत्तरा दिग्देशः कालो वा रमणीयः उत्तरतो रमणीयम्। उत्तरत आगतो वसति वा। एवं परतो रमणीयमागतो वसति वा / अवरतो रमणीयमागतो वसति वा / एवं चावरशब्दस्य चातुरूप्यं भवति / अकारस्तसोऽस्य भेदार्थः / तेनातः 'केहामात्रतसस्त्यच ' इति त्यच् न भवति / परतो भवं पारतमित्यणेव। / 2172 अधरापराचात् / / 7 / 2 / 118 // अधर अपर इत्येताभ्यां दिग्देशकालवृत्तिभ्यां प्रथमापञ्चमीसप्तम्यन्ताभ्यामात् प्रत्ययः स्यात् / चादक्षिणोत्तराभ्यां च। अधरा दिग्देशः कालो वा रमणीयः अधराद् रमणीयम् / अधरादागतो वसति वा। एवं चाधरशब्दस्य चैरूप्यम् / / 2173. पश्चोऽपरस्य दिक्पूर्वस्य चाति // 72 / 124 // अपरशब्दस्य केवलस्य दिक्पूर्वपदस्य च आति प्रत्यये परे पश्चादेशः स्यात् / अपरा दिग्देशः कालो वा रमणीयः पश्चाद् रमणीयम् / पश्चादागतो वसति वा / एवं दक्षिणपश्चाद् रमणीयमागतो वसति वा / दक्षिणाद् रमणीयमागतो वसति वा / उत्तराद् रमणीयमागतो वसति वा। __ 2174 वा दक्षिणात् प्रथमासप्तम्या आः // 2 / 119 // दक्षिणशब्दादिग्देशवृत्तेः प्रथमान्तात् सप्तम्यन्ताच आ; प्रत्ययो वा स्यात् / दक्षिणा रमणीयम् / दक्षिणा वसति, पक्षे अतसातौ। दक्षिणतो दक्षिणाद् रमणीयम् / दक्षिणतो दक्षिणाद् वसति / पञ्चम्यां सावकाशावतसावाकारो बाधेतेति वाग्रहणम् / प्रथमासप्तम्या इति किम् / दक्षिणत आगतः। 2175 आहि दूरे // 7 / 2 / 130 // दिक्शब्दा अवध्यपेक्षाः / तत्रावधेर्दूरे
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy