________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. अविदूरेऽविप्रकृष्टकाले वारे क्रियाप्रवृत्तौ तत्काले वाविभकृष्टे वर्तमानात् तद्वति धा प्रत्ययः स्यात् / बहव आसन्ना वारा अस्य बहुधा भुङ्क्ते / आसन्नवारेऽपि वारमात्रे द्योत्ये कृत्वस् प्रत्ययो भवत्येव / बहुकृत्वोऽह्नो भुङ्क्ते / आसन्नता तु पकरणादिना गम्यते / एके तु गणधा भुङ्क्ते तावद्धा भुङ्क्ते इत्यत्रापीच्छन्ति / 2166 दिक्शब्दादिग्देशकालेषु प्रथमापश्चमीसप्तम्याः॥१२।११३॥ दिक्शब्दादिशि प्रसिद्धाच्छब्दाद् दिशि देशे काले च वर्तमानात् प्रथमापञ्चमीसप्तम्यन्तात् स्वार्थे धा प्रत्ययः स्यात् / / ___2167 लुबञ्चेः // 72 / 123 // अश्चत्यन्तादिक्शब्दादिग्देशकालेषु वर्तमानात् प्रथमापञ्चमीसप्तम्यन्ताद्यः प्रत्ययो विहितो धा एनो वा तस्य लुप् स्यात् / इत्यनेन धापत्ययस्य लुपि ङयादेरित्यादिना डीलुक् / प्राची दिग् रमणीया प्राग्रमणीयम् / प्राङ्देशः कालो वा रमणीयः प्राग्रमणीयम् / प्राच्या दिशः पाचो देशात् कालाद्वागतः प्रागागतः प्राच्यां दिशि प्राचि देशे काले वा वसति प्राग्वसति / दिक्शब्दादिति किम् / ऐन्द्री दिक् / दिग्देशकालेष्विति किम् / प्राक्षः / प्रथमापञ्चमीसप्तम्या इति किम् / प्राची दिशं पश्यति / प्राच्या दिशा प्रज्वलितम् / प्राच्य दिशे देहि / प्राच्या दिशः स्वम् / दिग्देशकालेष्विति बहुवचनं प्रथमादिभिर्यथासंख्यनिवृत्त्यर्थम् / 2168 ऊर्ध्वादिरिष्टातावुपश्चास्य // 7 / 2 / 114 // ऊर्ध्वशब्दादिग्देशकालेषु वर्तमानात् प्रथमापञ्चमीसप्तम्यन्तात् रि रिष्टात् इत्येतो प्रत्ययौ धापवादौ स्याताम् अस्य चोर्ध्वशद्धस्योपादेशो भवति / ऊर्ध्वा दिग्देशः कालो वा रमणीयः उपरि उपरिष्टात् रमणीयम् / एवम् उपरि उपरिष्टादागतो वसति वा।। 2169 पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम् // 7 / 2 / 115 // पूर्व अवर अधर इत्येतेभ्यः प्रत्येकं दिग्देशकालवृत्तिभ्यः प्रथमापञ्चमीसप्तम्यन्तेभ्योऽस् अस्तात् इत्येतौ प्रत्ययौ स्यातामेषां च पूर्वावराधरशब्दानां यथासंख्यं पुर् अव अध इत्येते आदेशाः स्युः। पूर्वा दिग्देशः कालो वा रमणीयः पुरः पुरस्ताद रमणीयम् / पुरः पुरस्तादागतो वसति वा। अवरो दिग्देशः कालो वा रमणीयः अवः अवस्ताद् रमणीयम् / अवः अवस्तादागतो वसति वा / अधरा दिग्देशः कालो वा रमणीयः अधः अधस्ताद् रमणीयम् / अधः अधस्तादागतो वसति वा /