________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 439 बहुलमन्तस्य लुक् स्यात् / असर्पिः सर्पिः करोति सीकरोति नवनीतम् / धनूभवति वंशः। न च भवति सर्पिर्भवति / धनुर्भवति / बहुलग्रहणं प्रयोगानुसरणार्थम् / 2183 व्यञ्जनस्यान्त ईः // 7 / 2 / 129 // व्यञ्जनान्तस्य च्यौ परे बहुलमीकारोऽन्तः स्यात् / दृषदीभवति शिला। समिधीभवति काष्ठम् / न च भवति दृषद्भवति / समिद्भवति। 2184 आपत्यस्य क्यच्च्योः // 2 / 4 / 91 // व्यञ्जनात् परस्यापत्ययकारस्य क्ये च्चौ च परतो लुक् स्यात् / अगाग्र्यो गार्यो भवति गार्गीभवति / आपत्यम्येति किम् / असाङ्काश्यः साङ्काश्य देशो भवति साङ्काश्यीभवति / व्यञ्जनादित्येव / कारिकेयीभवति / 2185 ऋतो री // 4 / 3 / 109 // धातोरधातोर्वा ऋदन्तस्य श्रुतवाहतः स्थाने रीरित्ययमादेशः स्यात् चि-यङ्-यक्-क्येषु / पित्रीकरोति / पित्रीभवति / पित्रीस्यात् / 2186 व्याप्तौ स्सात् // 7 / 2 / 130 // कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वे इति वर्तते / एतस्मिन् विषये सकारादिः सात् प्रत्ययः स्यात् व्याप्ती-प्रागतत्तत्त्वस्य सर्वात्मना द्रव्येणाभिसंबंधो चेद् गम्यते / द्विसकारपाठः पखनिषेधार्थः। सर्व काष्ठं प्रागननिमग्निं करोति अग्निसात्करोति काष्ठम् / अग्निसाद्भवति / अग्निसात् स्यात् / उदकसात्करोति लवणम् / उदकसाद् भवति / उदकसात् स्यात् / व्याप्ताविति किम् / अग्नीकरोति काष्ठम् / अग्नीभवति अग्नीस्यात् काष्ठम् / सत्यामपि वस्तुनि व्याप्तौ प्रागतत्तत्वमात्रे चिर्भवत्येवेति नार्थो वावचनेन / अग्नीभवति काष्ठम् / व्याप्तिस्तु प्रकरणादेर्गम्यते / . 2187 जातेः संपदा च // 72 / 131 // कृभ्वस्तिभिः संपदा च योगे करोतिकर्मणो भ्वस्तिकर्तुः संपदिकर्तुश्च प्रागतत्तत्वेन जातेः सामान्यस्य व्याप्तौ स्सात् प्रत्ययः स्यात् / अस्यां सेनायां शस्त्रमनिसात् करोति दैवम् / अस्यां सेनायां सर्व शस्त्रम् अग्निसाद्भवति अग्निसात्स्यात् / अस्यां सेनायां सर्व शस्त्रअग्निसात्संपद्यते। वर्षासु सर्वं लवणमुदकसात्करोति मेघः। उदकसाद् भवति / उदकसात् स्यात् / उदकसात् संपद्यते / यथैव ह्येकस्य द्रव्यस्य सर्वावयवाभिसंबंधे प्रागतत्तत्वेन व्याप्ति