SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 432 सिद्धहैमबृहत्प्रक्रिया. [तद्धित तदानीम् एतर्हि इत्येते शद्धाः काले वाच्ये निपात्यन्ते / सदेति सर्वशद्वाद्दा प्रत्ययः सभावश्चास्य / सर्वस्मिन् काले सदा / सर्वदेत्यपि पूर्वेण / अधुनेति इदमो धुना प्रत्ययोऽकारादेशश्च / अस्मिन् काले अधुना / इदानीमिति इदमो दानी प्रत्यय इकारादेशश्च / अस्मिन् काले इदानीम् / तदानीमिति तदो दानी प्रत्ययः। तस्मिन् काले तदानीम् / एतहीति इदमो हिः प्रत्ययः। एतादेशश्च / अस्मिन् काले एतर्हि / 2150 सद्योऽद्यपरेद्यव्यहि // 7 // 2 / 97 // सद्यस् अद्य परेद्यवि इत्येतेऽति काले निपात्यन्ते / सद्य इति समानशद्वात् सप्तम्यन्तादह्नि काले वर्तमानात् धस् प्रत्ययः समानस्य च सभावो निपात्यते / समानेऽति सद्यः। अद्येति इदंशद्वाद द्यः प्रत्यय अकारादेशश्चास्य / अस्मिन्नहनि अद्य / परेघवीति परशद्धात एद्यवि प्रत्ययः / परस्मिन्नहनि परेद्यवि / सद्य इति केचित् कालमात्रे निपातयन्ति / 2151 पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युस् // 7 / 2 / 98 // पूर्व अपर अधर उत्तर अन्य अन्यतर इतर इत्येतेभ्यः सप्तम्यन्तेभ्योऽह्नि काले वर्तमानेभ्य एद्युस् प्रत्ययः स्यात् / पूर्वस्मिन्नहनि पूर्वेद्युः / अपरेधुः / अधरेयुः / उत्तरेयुः। अन्येषुः / अन्यतरेयुः / इतरेयुः। 2152 उभयाद् द्युश्च // 7 / 2 / 99 // उभयशब्दादहि काले घुस् चकारादेघुस् च प्रत्ययः स्यात् / उभयस्मिन्नहनि उभययुः। उभयेयुः। ___ 2153 ऐषमः परुत्परारि वर्षे / 7 / 2 / 100 // संवत्सरे काले निपात्यन्ते / ऐषमसिति इदंशद्वात् सप्तम्यन्ताद् वर्षे वर्तमानात् समसिण् प्रत्यय इदमश्चेकारादेशः। अस्मिन् संवत्सरे इमकस्मिन् संवत्सरे वा ऐषमः / परुदिति पूर्वशद्धात्परशद्धाद्वा उत् प्रत्ययस्तस्य च पर इत्यादेशः / पूर्वस्मिन् परस्मिन् वा संवत्सरे परुत् / परारीति पूर्वतरशद्वात् परतरशद्वाद्वा आरिमत्ययः तस्य च परादेशः। पूर्वतरे परतरे वा संवत्सरे परारि। 2154 अनद्यतने हिः // 7 / 2 / 101 // सप्तम्यन्तादनद्यतने काले वर्तमानात् यथासंभवं किमयादिसर्वाधवैपुल्यबहोः हिः प्रत्ययः स्यात् / कस्मिन्ननद्यतने काले कहिं / यहि / तर्हि / अन्यहि / एतस्मिन् काले एतर्हि / एतदः साको नेष्यते / अमुष्मिन् काले अमुर्हि / १इदमस्तु अनेन नेष्यते / बहुषु कालेषु बहुर्हि / 1 किंतु सदाधुनेदानीं तदानीमिति सामान्यकाले वतिभा
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy