SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. किंयत्तदेतदन्येभ्य एवेच्छन्त्यन्ये / काल इत्येव / यस्मिन्ननद्यतने भोजने यत्र / अनद्यतन इति किम्। यस्मिन् काले यदा। अनद्यननेऽपि काले काममात्रविवक्षायां दादिः प्रत्ययो भवति। कदा / यदा / तदा / तदानीम् / अन्यदा / सप्तम्यर्थमात्रविवक्षायां त्रबपि भवति / अमुत्र काले / 2185 प्रकारे था // 7 / 2 / 102 // सप्तम्या इति निवृत्तम् / यथासंभवं विभक्तिः। सामान्यस्य भिद्यमानस्य भेदान्तरानुप्रवृत्तो भेदः प्रकारः तस्मिन् वर्तमानात् किमयादिसर्वाधवैपुल्यबहोः था प्रत्ययः स्यात् / सर्वेण प्रकारेण सर्वथा / यथा / तथा / उभयथा / अन्यथा / अपरथा / इतरथा / बहोस्तु परखाद्धा भवति / 2166 कथमित्थम् / / 12 / 103 // कथमित्थमिति प्रकारे निपात्यते / कथमिति किमस्थापवादस्थम् निपात्यते / केन प्रकारेण कथम् / इत्थमिति इदम एतदो वा थम्पत्यय इदादेशश्च / अमेन एतेन वा प्रकारेण इत्थम् / . . 2157 संख्याया धा / / 7 / 104 // संख्यावाचिनो नाम्नः प्रकारे वर्तमानाद् धा प्रत्ययः स्यात् / एकेन प्रकारेण एकधा। द्विधा / त्रिधा / चतुर्धा / पञ्चधा / शतधा / बहुधा / गणधा / कतिधा / तावद्धा / 2258 विचाले च // 72 / 105 // विचलनं विचालः / द्रव्यस्य पूर्वसंख्यायाः प्रच्युतिः संख्यान्तरापत्तिः एकस्यानेकीभावः अनेकस्य चैकीभावः / तस्मिन् गम्यमाने संख्यावाचिनो नाम्नो पा प्रत्ययो वा स्यात् / एको राशि क्रियते द्विधा क्रियते / एको राशि भवति द्विधा भवति / त्रिधा भवति / एकं राशिं द्वौ करोति द्विधा कोति / त्रिधा करोति / शतेन शतधा / 'यदि मे यतमानाय वचनं न करिष्यसि / उन्मत्त शतधा मूर्धा तवैषोऽद्य फलिष्यति'। अनेक एकः क्रियते एकधा क्रियते / अनेक एको भवति एकधा भवति। अनेकमेकं करोति एकधा करोति / पञ्च राशयस्त्रयो द्वौ एको वा क्रियन्ते त्रिधा द्विधा एकधा क्रियन्ते / एवं त्रिधा द्विधा एकधा वा भवन्ति / त्रिधा द्विधा एकधा का करोति / एवं बहुधा गणधा कतिधा तावद्धा। चकार उत्तरत्र प्रकारे विचा चेत्युभयोः समुचयार्थः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy