SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 2145 त्रप् च // 7 / 2 / 92 // भवसायुष्मद्दीघायुर्दैवानांप्रियैः समानाधिकरणात् किमयादिसर्वाधवैपुल्यबहोः सर्वविभक्त्यन्तात् त्रप् प्रत्ययो वा स्यात् / स भवान् तत्र भवान्। तौ भवन्तौ तत्र भवन्तौ। ते भवन्तः। तत्र भवन्तः। तं भवन्तं तत्र भवन्तम्। तेन भवता तत्र भवता। तस्मै भवते तत्र भवते / तस्माद् भवतः तत्र भवतः। तस्य भवतः तत्र भवतः। तस्मिन् भवति तत्र भवति / एवमायुष्मदीर्घायुर्देवानां प्रियैरप्युदाहार्यम् / योगविभागश्चकारेण पुनस्तस्विधानार्थः। तेन सप्तम्यन्तादपि तस् भवति / ततो भवति तत्र भवति / अन्यथा हि ततः ' सप्तम्या ' इति परखात् त्रबेव स्यात् / रूढिशब्दाश्चैते ततोभवदादयः समुदायाः पूनावचना यथाकथंचित व्युत्पाद्यन्ते / अत एव पुनस्त्यदादिरनुप्रयुज्यते / स तत्रभवान् / तं तत्रभवन्तम् / केचित्तु भवच्छदस्यामन्त्रणे सौ भो इत्यादेशं कुर्वन्ति तन्मते ततो भोः तत्र भोः इत्यत्रापि भवति / केचिनु भवदाद्ययोगेऽपि त्रप्तसाविच्छन्ति / क गमिष्यसि कं देशं गमिष्यसि इत्यादि। 2146 क कुत्रात्रेह // 12 / 93 // क कुत्र अत्र इह इत्येते शद्धास्त्रबन्ता निपात्यन्ते / केति किमः कादेशः त्रपश्चाकारः। कस्मिन् क / कुत्रेति किमः कु इत्यादेशः / कस्मिन् कुत्र / अत्रेति एतदोऽकारादेशः / एतस्मिन् अत्र / एतकस्मिन् अत्र / इहेति इदम इकारादेशः त्रपश्च हादेशः। अस्मिन् इह / इमकस्मिन् इह / एषु 'सप्तम्या' इति त्रप्। त्रप्मात्रे चैते आदेशा विधीयन्ते तेन भवदादियोगेऽपि भवन्ति / क भवान् कुत्र भवान् / अत्र भवान् / इह भवान् / कायुष्मान् / कुत्रायुष्मान् / अत्रायुष्मान् / इहायुष्मान् / क दीर्घायुः / कुत्र दीर्घायुः। अत्र दीर्घायुः। इह दीर्घायुः इत्यादि। 2147 सप्तम्याः // 7 // 2 / 94 // सप्तम्यन्तात् किमादिसर्वाधवैपुल्यबहोस्वप् स्यात् / कस्मिन् कुत्र / सर्वत्र / तत्र / बहुषु बहुत्र / पकारस्य पुंवद्भावार्थवात् बढीषु बहुत्र / ___2148 किंयत्तत्सर्वैकान्यात् काले दा // 7 / 2 / 95 // किंयत्तत्सर्व एक अन्य इत्येतेभ्यः सप्तम्यन्तेभ्यः काले वाच्ये दा प्रत्ययः स्यात् / कस्मिन् काले कदा / यदा / तदा / सर्वदा / एकदा / अन्यदा। काल इति किम् / क देशे / 2149 सदाऽधुनेदानींतदानीमेतहि // 7 / 2 / 96 // सदा अधुना इदानीं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy