________________ 428 सिद्धहैमबृहत्मक्रिया. [तद्धित ____ 2132 गोष्ठादीनञ् // 279 गोष्ठशब्दाद् भूतपूर्वत्वे ईनञ् प्रत्ययः स्यात् / गोष्ठो भूतपूर्वो गौष्ठीनो देशः। - 2133 षष्ठ्या रूप्यपचरट् // 7 / 2 / 80 // पष्ठयन्ताद् भूतपूर्वेऽर्थे रूप्यप्चरट् प्रत्ययौ स्याताम् / भूतपूर्वम् इतीह प्रत्ययार्थः। देवदत्तस्य भूतपूर्वो देवदत्तरूप्यो गौः / देवदत्तचरः। पचरडित्यत्र पकारटकारौ पुंवद्भावडीप्रत्ययार्थी / देवदत्तचरी। 2134 व्याश्रये तसुः // 7 / 2 / 81 // नानापक्षाश्रयो व्याश्रयः / षष्ठयन्ताद् व्याश्रये गम्यमाने तमुः प्रत्ययः स्मात् / उकारो विशेषणार्थः / देवा अर्जुनतोऽ. भवन् / आदित्यः कर्णतोऽभवत् / अर्जुनकर्णयोर्विवदमानयोरर्जुनस्य पक्षे देवा; कर्णस्य पक्षे आदित्योऽभवदित्यर्थः। यत्तोऽभवत् यस्य पक्षे इत्यर्थः। तत्तोऽभवत तस्य पक्षे इत्यर्थः। एवं त्वत्तोऽभवत् / मत्तोऽभवत् / व्याश्रय इति किम् / वृक्षस्य शाखा। 2135 रोगात्प्रतीकारे // 7 / 2 / 82 // रोगवाचिनः षष्ठयन्तात् प्रतीकारेऽउपनयने गम्यमाने तसुः प्रत्ययः स्यात् / प्रवाहिकातः प्रच्छर्दिकातः कुरु / अस्य रोगस्य चिकित्सां कुर्वित्यर्थः।। __2136 पर्यभेः सर्वोभये // 7 / 2 / 83 // परि अभि इत्येताभ्यां यथाक्रम सर्वोभयार्थे वर्तमानाभ्यां तसुः प्रत्ययः स्यात् / परितः सर्वत इत्यर्थः / अभितः उभयत इत्यर्थः / सर्वोभय इति किम् / वृक्षं परि / वृक्षमभि / 2137 आद्यादिभ्यः // 7 / 2 / 84 // आधादिभ्यः संभवद्विभक्त्यन्तेभ्यस्तसुः प्रत्ययः स्यात् / आदौ आदेर्वा आदितः। एवं अन्ततः। मध्यतः / अग्रतः / वक्षस्तः। पार्श्वतः / पृष्ठतः। मुखतः / सर्वतः। विश्वतः / उभयतः / अन्यतः / पूर्वतः / एकतः। इतः। प्रमाणेन प्रमाणाद्वा प्रमाणतः / पृष्ठेन पृष्ठतोऽर्क सेवेत / एवं पार्श्वतः / इतः। दुष्टः शरैः स्वरतो वर्णतो वा / शब्दतः अर्थतः अभिधानतः। येन यस्मिन् वा यतः / ततः / पृषोदरादित्वाद् दलोपः / आधादयः प्रयोगगम्याः। . 2138 क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीयायाः // 7 / 2 / 85 // तृतीयान्तादकर्तृवाचिनः क्षेपातिग्रहाव्यथाविषये तसुः प्रत्ययः स्यात् / क्षेपो निन्दा / वृत्तेन क्षिप्तः वृत्ततः क्षिप्तः निन्दित इत्थः। अतिक्रम्य ग्रहणमतिग्रहः। वृत्तेनातिगृह्यते वृत्ततोऽतिगृह्यते