________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 427 मन्तादपि जातीयर् प्रत्ययो भवति / यथाजातीयः / तथाजातीयः। कथंजातीयः / इत्थंजातीयः। 2129 कोऽण्वादेः // 7 / 276 // अणु इत्येवमादिभ्यस्तदस्य प्रकारे इत्यस्मिन् विषये कः प्रत्ययः स्यात् / जातीयरोऽपवादः। अणुः प्रकारोऽस्य अणुकः पटः। एवं स्थूलकः पटः। अणुकाः स्थूलका वा माषाः। माषकं हिरण्यम् / इषुका / गोलिका। 2130 जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिबी. हितले // 7 / 2 / 77 // जीर्ण गोमूत्र अवदात सुरा यव कृष्ण इत्येतेभ्यो यथासंख्यं शालिआच्छादनसुराहिव्रीहितिलेषु वाच्येषु तदस्य प्रकार इत्यस्मिन् विषये कःमत्ययः स्यात्। जीर्णाच्छालिषु-जीर्णः प्रकार एषां जीर्णकाः शालयः। गोमूत्रादाच्छादनेगोमूत्रप्रकारं गोमूत्रकम् गोमूत्रवर्णमाच्छादनम् / अवदातात्सुरायाम् अवदातप्रकारा अवदातिका सुरा / सुराया अहौ-सुराप्रकारः सुरावर्णः सुरकोऽहिः। यवाबीहिषुयवप्रकारा यवका बीहयः। कृष्णात् तिलेषु-कृष्णप्रकाराः कृष्णकास्तिलाः। शाल्यादिष्विति किम् / जीर्णजातीयोऽन्य इत्यादि। // इति श्रीसिद्धहैमबृहत्मक्रियायां तद्धितप्रकरणे मत्वर्थीयाः समाप्ताः // // अथ स्वार्थकाः // 2131 भूतपूर्वे पचरट् // 7 / 2 / 78 // अतः परं प्रायः स्वार्थिकाः प्रत्ययाः। तत्रोपाधिः प्रकृतेर्विज्ञायते स प्रत्ययस्य द्योत्यो भवति / पूर्व भूतो भूतपूर्वः। भूतपूर्वेऽर्थे वर्तमानान्नाम्नः पचरट् प्रत्ययः स्यात् स्वार्थे / भूतपूर्व आढ्यः आढ्यचरः। दर्शनीयचरः। टकारो ङन्यर्थः। पकार; पुंवद्भाकार्थः। भूतपूर्वा आन्या आढ्यचरी। दर्शनीयचरी। भूतशद्धो वर्तमानेऽप्यस्ति पूर्वशब्दो दिगादावपीति अतिक्रान्तकालमतिपत्त्यर्थमुभयोरुपादानम् / प्रत्यासत्तेः शब्दमवृत्ति / निमित्तस्य भूतपूर्वत्वेऽयं प्रत्ययः इतीह न भवति / अर्जुनो महिष्मत्यां भूतपूर्व इति।